________________
मङ्गलवादः, उपाध्याय श्रीसिद्धिचन्द्रजीगणी
९
जातिसाङ्कर्यं वश्यं दूषणं । तल्लक्षणं तु परस्परात्यन्ताभावसामानामाधिकरण्ये सति परस्परसामानाधिकरण्यम् ।
अत एव नमस्कारत्वमपि न जातिः ।
अत्र वदन्ति - जातिसाङ्कर्य न दूषणं । न हि 'जात्योः साङ्कर्यं जातिसाङ्कर्यम्' । एतस्य दूषणस्य सिद्धत्वे दूषणत्वासिद्धेः, असिद्धत्वे च स्वरूपालाभादेव ।
ननु जातिसाङ्कर्यम् आपादकीभूय दूषणं, यदि जातिसाङ्कर्यं स्यात् घटत्वपटत्वयोरप्येकत्र सामानाधिकरण्यं स्यादित्यादिरूपेणेति चेन्न, आपादकाप्रसिद्धेरेव ।
नापि जातिसाङ्कर्यस्य दूषणत्वमित्यस्यायमाशयः - यदि भूतत्वमूर्तत्वयोर्जातित्वं स्यात्, घटत्वपटत्वयोरपि सामानाधिकरण्यं स्यादिति वैयधिकरण्यादिति ।
किन्तु परस्परात्यन्ताभावसामानाधिकरणयोर्धर्मयोः परस्परसामानाधिकरण्याज्जातित्वं नेष्यत इत्येतावन्मात्रम् । तत्र बीजं न पश्यामः ।
ननु जातित्वं यदि तादृशधर्मवृत्तिः स्यात् उभयवादिसम्मततादृशधर्मवृत्तिः स्यादित्यापादानार्थ इति चेन्न, अप्रयोजकत्वात् ।
तस्मान्न सङ्करस्य दूषणत्वमिति केचित्,
तन्न, घटत्व- पटत्वयोविरोधदर्शनेन विरोधितावच्छेदकस्य परस्परात्यन्ताभावसमानाधिकरणजातिस्वरूपस्यानुगतस्य सम्भवे त्यागायोगात्, अव्याप्यवृत्तिजात्यनङ्गीकाराच्च ।
तस्मात् प्रतिबन्धकान्यस्य सतः प्रारीप्सितप्रतिबन्धकनिवृत्त्य साधारकारणत्वमेव मङ्गलत्वम् ।
अत्र दाहप्रतिबन्धकमणिनिवृत्यसाधारणकारणे मणौ तत्कालीनविघ्नध्वंसकारणे विघ्ने च प्रारिप्सित-प्रतिबन्धकान्यस्य सतः इत्युभयपदोपादानान्नातिव्याप्तिः ।
वस्तुतो विघ्नध्वंसप्रतिबन्धक - दुरदृष्टाभावे ऽतिव्याप्तिवारणाय सत इति । प्रतिबन्धक विघ्न एवातिव्याप्तिनिरासाय प्रतिबन्धकान्यस्येति ।
सत्त्वं चात्र भावत्वं । प्रथमपक्षे च तदन्यत्वे सतीत्यर्थो बोध्यः ।
केचित्तु कर्मारम्भकालविद्यमानत्वे सतीत्यर्थ इत्याहुः । न चानुगतं रूपमनादाय कथं तद्ग्रह इति वाच्यम्, तेन तेन रूपेण विशेष्यैव तद्ग्रहात् ।
ननु मङ्गलमाचरेदिति श्रुतिकल्पने श्रुतेः कथं प्रवर्तकत्वम् ?, प्रवृत्तिविषयस्य