________________
मङ्गलवादसंग्रह
मण्यभावेऽपरमणिसत्त्वे दाहापत्तेः । एकस्मादनेकविघ्ननाशस्तु न भवति तत्तन्मङ्गलत्वेन तत्तद्विघ्नध्वंसत्वेन कार्यकारणभावोपगमादिति ।
८
न च द्वारफले सत्येकरूपैणैव जनकता, सा च प्रकृते नास्ति, तत्तन्मङ्गलत्वेन च फलजनकत्वसत्त्वादिति वाच्यम्, चक्षुषो द्रव्यत्वेन संयोगं प्रति चाक्षुष्ट्वेन चाक्षुषज्ञानं प्रति कारणत्वकल्पनादिति ।
१ अत्र ब्रूमः
किमिह मङ्गलस्य समाप्तिजनकताबोधने प्रमाणम् ? |
ननु निरुक्ता श्रुतिरेवेति चेत्, न तस्याः प्रत्यक्षाया अभावात् ।
अनुमितेति चेत्, न, लिङ्गाभावात् ।
शिष्टाचार एवानुमापक इति चेत्, न शिष्टाचारेण वेदमात्रानुमानेऽपि समाप्ति - साधनताबोधकस्यानुमातुमशक्यत्वात्, दर्शादौ व्यभिचारात् ।
-
समाप्तिकामशिष्टाचारेण तदनुमानमिति चेन्न दृष्टान्ताभावात् ।
न तु व्यतिरेके व्याप्तिग्रहो यद्वा पक्षधर्मताबलादेव तादृशो वेदः सिद्ध्यति, समाप्तिकामशिष्टाचारस्यैव पक्षत्वादिति चेन्न, केनचित् मङ्गलं विघ्नध्वंसकामेन परेण विघ्नानुत्पादकामेन, अन्येन विघ्नध्वंसविशिष्टसमाप्तिकामेन, इतरेण विघ्नप्रागभावविशिष्टसमाप्तिकामेन क्रियत इति तादृशाचाराणां पक्षत्वे तावच्छ्रुतेरुन्नयनप्रसङ्गात् ।
लाघव सहकारेण समाप्तिसाधनबोधिकैव श्रुतिरुन्नीयत इति चेनः पन्थानमनुसृतोऽसि, समाप्तिफलकत्वे विघ्नध्वंसं प्रत्यपि जनकत्वे गौरवेण लाघवेन विघ्नध्वंसफलकत्वबोधक श्रुतेरेवानुमातुमुचितत्वात् ।
न च विघ्नप्रागभाव एव फलमस्तु तत्रापि विघ्नकारणविनाशस्य द्वारतायां गौरवात् ।
तस्मात् चिन्तामणिकारीयं मतम् अनुमतं च श्रीप्रगल्भचरणादिभिर्न कस्यचिदतिसाहसिनो वचनमात्रेण प्रेक्षापूर्वकारिणामुपेक्षायोग्यमिति सङ्क्षेपः ।
मङ्गलत्वं च न जातिर्जातिसङ्करापत्तेः । तथाहि यत्र संयोगत्वं तत्र वा मङ्गलत्वं, यत्र वा मङ्गलत्वं तत्र वा संयोगत्वं । घटपटसंयोगे संयोगत्वं वर्तते मङ्गलत्वं नास्ति, मङ्गलत्वं च वाचनिके [ तत्र ] न संयोगत्वं, कायिके च द्वितयमिति जातिसाङ्कर्यम् ।।
१. प्राचीनपक्षप्रतीकारः प्रारभ्यते ।