________________
मङ्गलवादः, उपाध्याय श्रीसिद्धिचन्द्रजीगणी
मात्माश्रयाच्च, अवच्छेद्यस्यावच्छेदके प्रवेशात् । समाप्तिनिष्ठमङ्गलजन्यता हि अवच्छेद्या (सा च) तच्चावच्छेदके प्रविशति । मङ्गलव्यापारीभूतत्वं मङ्गलजन्यत्वे सति मङ्गलजन्य - जनकत्वं, तत्र मङ्गलजन्यजनकत्वमित्यत्र मङ्गलजन्यपदेन समाप्तेरेव ग्रहणात् भवत्यवच्छेदकेऽवच्छेद्यप्रवेशः ।
७
किञ्च, यदि मङ्गलत्वेन तादृशकार्यं प्रति जनकता, तर्हि एकमङ्गलादपि बहुविघ्नस्थलीयसमाप्त्यापत्तिः । जनकतावच्छेदकावच्छिन्नयत्किञ्चित्सत्त्व एव कार्योत्पत्तेः । न च प्रकृतसमाप्तिविघ्नसमसङ्ख्याकमङ्गलत्वेन जनकता, समसङ्ख्यत्वं हि नान्यूनानधिकसङ्ख्यत्वं, अधिकसङ्ख्यमङ्गलस्थले समाप्त्यनापत्तेः ।
नाप्यन्यूनसङ्ख्यमङ्गलत्वं यत्र बहवो विघ्ना द्वित्रा गङ्गास्नानादिभिर्नाशिताः द्वित्राश्च मङ्गलैस्तत्र समातिं प्रति मङ्गलस्य न्यूनसङ्ख्यत्वेनाकारणताऽऽपत्तेः ।
न च स्वनाश्यविघ्नान्यूनसङ्ख्यमङ्गलत्वेन कारणता, एकमङ्गलस्थले बहुविघ्नस्थलीयसमाप्त्याऽऽपत्तेः, स्वनाश्यविघ्नेनैकमङ्गलस्यान्यूनसङ्ख्यत्वात् ।
न च प्रायश्चित्ताद्यनाश्यविघ्नान्यूनसंख्यमङ्गलत्वेन कारणत्वं प्रायश्चित्ताद्यनाश्यविघ्नस्थलीयसमाप्तित्वेन कार्यत्वमिति वाच्यम्, अन्यथासिद्धेरिति चेन्न विघ्नध्वंसेन ह्यन्यथासिद्धिरुच्यते, सा च न सम्भवति । प्रामाणिके कारणेऽन्यथासिद्धेर्वक्तुमशक्यत्वात् । अन्यथाऽपूर्वेण यागोऽप्यन्यथासिद्धः स्यात् ।
प्रमाणं चात्र 'स्वर्गकामो यजेत' इतिवत् 'समाप्तिकामो मङ्गलमाचरेद्' इति
श्रुतिरेव ।
विधिना हि इष्टसाधनत्वं बोध्यते, साधनं च साध्याकाङ्क्षीति काम्यतया साध्यतयोपस्थितौ साधनसाकाङ्क्षौ समाप्तिस्वर्गावेव तत्रान्वितौ यतो भवतः ।
न च व्यापारेण व्यापारिणो नान्यथासिद्धिः प्रकृतेऽपि तुल्यत्वात् ।
न च व्यभिचारेण प्रकृते श्रुतिः कारणतां बोधयितुं न शक्नोतीति वाच्यम्, यागेऽपि तुल्यत्वात्, गङ्गास्नानादितोऽपि स्वर्गोत्पत्तेः । न च तत्र स्वर्गविशेषे जनकत्वं, समाप्तिविशेषे प्रकृतेऽपि जनकत्वसम्भवात् ततो नान्यथासिद्धम् ।
न चैकमङ्गलादपि बहुविघ्नस्थलीयसमाप्त्यापत्तिः, विघ्नो हि प्रतिबन्धक - स्तदभावश्च प्रत्येकाभावत्वेन कारणं, तथा चैकविघ्नसत्त्वेऽपि विघ्नान्तराभावविलम्बादेव कार्यविलम्बः । न ह्येकविघ्नसत्त्वे ऽपरविघ्ननाशे कार्योत्पत्तिर्वक्तुं शक्यते,
एक