________________
६
मङ्गलवादसंग्रह
तृणान्वयव्यतिरेकवद् इह तद्ग्राहकस्याभावात् ।
न च श्रुत्यैव समाप्तित्व-मङ्गलत्व-सामानाधिकरण्येन कार्य-कारणभावग्रहे बाधकाभावः, पूर्वोक्तन्यायेन व्यभिचारज्ञानस्याप्रतिबन्धकत्वादिति वाच्यम्, समाप्तित्वमङ्गलत्वाद्यवच्छेदेनैव कार्यकारणभावग्रहस्य परेणाऽऽक्षिप्तत्वात् ।
तस्मात् मास्तु समाप्तिमात्रं प्रति कारणता; व्यभिचारेण, समाप्तिविशेषे तु भविष्यति तत्र व्यभिचाराभावात्, यथा यागस्य स्वर्गमात्रे कारणता, गङ्गास्नानजन्ये स्वर्गे व्यभिचारात् । स्वर्गविशेषे त्वस्त्येव ।
ननु स्वर्गे जातिरूपो विशेषः सम्भवति, समाप्तौ तु न सम्भवति । तथाहि न हि चरमवर्ण-तद्ध्वंस- तदुच्चारणानि समाप्तयः, मौनिकृतग्रन्थसमाप्त्यव्यापनात्, तेन हि केनचिदुत्पादितस्य वर्णस्यानुसन्धानमात्रं क्रियते, न तु वर्णादिकमुच्चार्यते । तथा च चरमवर्णज्ञानं समाप्तिर्वाच्या, न च तत्र जातिः सम्भवति, चरमवर्णज्ञानस्य मानसादिभेदभिन्नतया तत्र जातिस्वीकारे जातिसाङ्कर्यापत्तेः । न हि यत्र मानसत्वं तत्र सा जातिः सम्भवति, सुखादिसाक्षात्कारे मानसत्वसत्त्वेन तज्जातेरभावात् श्रावणादिरूपे चरमवर्णज्ञाने द्वयसत्वात्, तस्मात् कथं मङ्गलस्य समाप्तिविशेषे कारणत्वमिति चेत्, न, उपाधिरूपस्यैव विशेषस्य सत्त्वात् [ ननु ] स तु नाखण्डोपाधिः सखण्डसम्भवे स्वीकारार्हः, गुरूत्वात्, सखण्डापेक्षयाऽऽहितस्येदमेव गौरवं यदक्लृप्तकल्पनेति ।
सखण्डे हि घटका विशेषणादयः । तेषां परस्परं सम्बन्धः क्लृप्त एव यथा पाचकत्वमित्यादौ पाककृत्यादेः । अखण्डस्तूपाधिभिन्न एव वाच्यः स्यादिति सखण्डो
वाच्यः ।
स च न विघ्नस्थलीयसमाप्तित्वं, विघ्नस्थलीयत्वं हि विघ्नसमकालीनत्वं, तन्न असम्भवात् । न हि प्रतिबन्धक समकालीनं कार्यं सम्भवति ।
विघ्नोत्तरकालीनत्वं चेत्, तदा व्यभिचारः, गङ्गास्नानेन दशविधपापान्तर्गततया विघ्ने नष्टे विघ्नोत्तरसमाप्तेर्मङ्गलं विनापि भावात् ।
नापि विघ्नध्वंसस्थलीयसमाप्तित्वं, अन्यथासिद्धेः । येन विघ्नध्वंसादिना अन्या समाप्तिस्तेनैव प्रकृताया अपि सम्भवात्, अन्यथा गङ्गास्नानादिजन्य - विघ्नध्वंसजन्य - समाि प्रति गङ्गास्नानस्यापि जनकतापत्तेः ।
अत एव न मङ्गलव्यापारी भूत-विघ्नध्वंसजन्यसमाप्तित्वमपि कार्यतावच्छेदक
१. इत आरभ्य.......अन्यथासिद्धेरिति चेन्न (पत्र - ७) पर्यन्तः शङ्काग्रन्थ इत्याभाति ।