________________
मङ्गलवादः, उपाध्याय श्रीसिद्धिचन्द्रजीगणी
न च अयं प्रधाने नियमो न त्वङ्गे, कृतप्रयाजस्यापि ज्योतिष्टोमं विना स्वर्गादर्शनादिति वाच्यम्, तथापि व्यतिरेकव्यभिचारस्य वज्रलेपत्वात्, प्रयाजं विना स्वर्गाभाव इति व्यतिरेकस्य प्रयाजेऽङ्गेऽपि सत्त्वात्, प्रकृते तदभावाच्च ।।
अत्र केचित् - जन्मान्तरीयमङ्गलस्य तत्र कारणत्वेन न व्यतिरेकव्यभिचार इत्याहुः, तन्न, ऐहिक-समाप्ति प्रति जन्मान्तरीयमङ्गलस्याहेतुत्वात् । 'इदं मे समाप्यतां' इति कामनया क्रियमाणस्य तस्य तदानीन्तानसमाप्तिकारणतयानङ्गीकारात् । २पुढेष्ट्यादौ तु ऐहिक-पुत्र-बाधे आमुष्मिकं फलं कल्प्यते, तत्र सामान्यतः पुत्रमात्रस्य कामना श्रवणात् ।
अन्ये तु - श्रुत्या हि कारणत्वं बोध्यते, सा च व्यतिरेक-व्यभिचारग्रस्तां कारणतां बोधयितुं न शक्नोति, ततो व्यभिचारपरिहाराय जन्मान्तरीयमङ्गलानुमानं वाच्यम्, तथा चान्योन्याश्रयः, तथा हि-जन्मातरीयमङ्गलेऽनुमिते अव्यभिचारेण श्रुतिः कारणतां बोधयितुं शक्नोति; श्रुत्या च कारणत्वे बोधिते जन्मान्तरीयमङ्गलमनुमातुं शक्यत इति प्रावोचन्, तन्न, कारणताग्रहो न जन्मान्तरीय-मङ्गल-साध्यो येनान्योन्याश्रयः स्यात् ।
३न च तदनुपस्थितौ व्यभिचारग्रहस्य विद्यमानत्वात् कथं कारणताग्रह ? इति वाच्यम्, आचारकल्पित श्रुत्या कारणतावगमसमये जन्मान्तरीयमङ्गलसंदेहेन व्यभिचारनिश्चयस्याभावात्, तत्संशयस्य योग्यतासंशयपर्यवसन्नत्वेनानुगुणत्वात् ।
यत्तु कारणताग्रहो व्यभिचारग्रहे भवत्येव, यथा वह्नि प्रति तृणादेरिति, तदपि न, तृणारणिमणिस्थलेऽकार्याकारणव्यावृत्तरूपं वह्निनिष्ठकार्यतानिरुपितकारणतावच्छेदकरूपवत्त्वं तृणादौ, तृणारणिमणिनिष्ठकारणताप्रतियोगिककार्यतावच्छेदकरूपवत्वं वह्नौ वा (न) परिच्छिद्यत इति तृणत्व-वह्नित्वाद्यवच्छेदेन कार्यकारणभावग्रहाभावात् ।
न च तुणत्वे वह्नित्वाद्यवच्छेदेन कार्यकारणभावाग्रहेऽपि तत्सामानाधिकरण्येन तु कार्यकारणभावग्रहे बाधकाभावः, तदवच्छिन्नव्यभिचारग्रहस्य तदवच्छिन्नाकारणताग्रहप्रतिबन्धकत्वात्, तद्वदेवात्रापि कारणताग्रहोऽस्त्विति वाच्यम्, अरणिमण्य भाववति स्तोमे
५. प्रया४ शभासवि.नो अंगभूत याग छ, 'समिधो यजति, तनूनपातं यजति, इडो यजति,
बहिर्यजति, स्वाहाकारं यजति (कात्यायनश्रौत सूत्र- ३।२।१।१७) मा श्रुति द्वारा पांथ प्रयाવિધાન કરવામાં આવ્યું છે. २. पुत्र भाटे ४२ती [ष्ट. (सधुयाय). ३. यद्यपि जन्मान्तरीयमङ्गलसंशयाद् व्यभिचारनिश्चयो नास्त्येव, तत्संशयश्च न विरोधी तस्य ग्राह्यसंशयपर्यवसन्नत्वेन प्रमाणाऽपरिपन्थित्वात् ।। (तचि० प्रकाश० प्रका०-केन्द्रीय संस्कृत विद्यापीठम्, तिरुपति, १९७३)