________________
१०
मङ्गलवादसंग्रह
विशेष्याग्रहादिति चेन्न, नमस्कारादिकमाचरेदिति प्रत्येकमेव विधिकल्पनात् ।
तथा च तदुपजीव्यविघ्नध्वंसकामनयानुगतो मङ्गलव्यवहार इति न किञ्चिदनुपपन्नम् ।
नमस्कारत्वमपि स्वापकर्षबोधानुकूलतावच्छेदकजातिमत्त्वमेव । सा च जाति: कायिकत्वादिस्वरूपा ।
न च कायिकत्वमपि न जाति:, सङ्करापत्तेरिति वाच्यम्, अन्यतरकर्मजन्यतावच्छेदिकया तज्जातेरनङ्गीकारात् ।
वाचनीकत्वमपि तत्तद्वर्णव्याप्यं भिन्नमेवेत्यलं विस्तरेण ||
इति महोपाध्यायश्रीभानुचन्द्रगणिशिष्य महोपाध्याय श्रीसिद्धिचन्द्रगणिविरचितो
'मङ्गलवाद: ' समाप्तः ॥ संवत् १९६७ वर्षे कार्तिकशुक्लपक्षे तिथौ पूर्णिमायाम् ॥ ॥ शुभं भवतु श्रीसङ्गस्य ॥