________________
पञ्चमोऽध्यायः
'सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेर्ष्या जह्नुसुताऽवलोकनविधौ दीना कपालोदरे पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवायास्तु वः ॥' अत्र व्रीडादयः ।
क्वचित् सञ्चारिणां न दोषः ॥ २६ ॥
यथा
'औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना हिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः । दृष्टवाग्रे वरमात्तसाध्वसरसा गौरी नवे सङ्गमे संरोहत्पुलका हरेण हसताऽऽ श्लिष्टा शिवायस्तु वः ॥' अत्र औत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत् ॥ यत्र विभावानुभावादयः प्रतिकूला ( स्त? )द्विभावादिप्रातिकूल्यम् ॥२७॥
यथा
'त्यजत मानवलम्बत विग्रहैर्न पुनरेति गतं चतुरं वयः । परभृताभिरितीवमुदीरिते स्मरमते रमते स्म वधूजनः ॥'
अत्र 'न पुनरेति चतुरं वयः' इति पदमनित्यतां प्रकाशयन् शान्तस्य विभावतां याति शृङ्गारस्य नोपयोगि ।
यथा
१४७
'प्रच्छन्नकामुकं दृष्ट्वा गुरूणां मध्यतो वधूः । विमुच्य सर्वव्यासङ्गं वनाय कुरुते स्पृहाम् ॥'
अत्र सकलव्यासङ्गविमोचनवनस्पृहे शान्तस्यानुभावौ ॥
१४८
काव्यानुशासनम्
परस्परबाध्यबाधकभावे पृथक्पृथगाश्रये अन्यरसैरन्तरितत्वेऽङ्गत्वे च न दोषः ||२८||
तत्र परस्परबाध्यत्वं यथा
'स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना वाताः सीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥' अत्र धैर्यापस्मारौ परस्परबाध्यबाधकभावेनोपनिबद्धौ विप्रलम्भरसोप
काराय ।
'स्नायुव्यासनिबद्धकीकसतनुं नृत्यन्तमालोक्य मां चामुण्डा करतालकुट्टितलयं वृत्ते विवाहोत्सवे । मुद्रामपद्य यद्विहसितं चित्रं समं शम्भुना तेनाद्यापि मयि प्रभुः स जगतामास्ते प्रसादोन्मुखः ॥' अत्र बीभत्सहास्यरसयोर्भिन्नाश्रयत्वेन निबद्धयोर्न दोषः । अन्यरसैर (न) न्तरितत्वे यथा
‘भूरेणुदिग्धान्नवपारिजातमालारजोवासितबाहुमध्याः । गाढं शिवाभिः परिरभ्यमाणान्सुराङ्गनाश्लिष्टभुजान्तरालाः ॥ सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् । संवीजिताश्चन्दनवारिसेकसुगन्धिभिः कल्पलतादुकूलैः ॥ विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् । निर्दिश्यमाना ललनाङ्गुलीर्भिर्वीराः स्वदेहान् पतितानपश्यन् ॥' अत्र बीभत्स श्रृङ्गारयोरन्तरे वीरा इति पदेन वीररसनिवेशान्न दोषः । अङ्गत्वे च यथा
'कोणत्किञ्चिदुपागतोऽपि रभसादाकृष्य केशेष्वलं नीत्वा मोहनमन्दिरं दयितया हारेण बद्धवा दृढम् ।