________________
पञ्चमोऽध्यायः
यथा
'वारंवारं तिरयति सुधावुद्गतो बाष्पपूरस्तत्सङ्कल्पोपहितजडिमस्तम्भमभ्येति गात्रम् । सद्यः खिद्यन्नयनविरतोत्कम्पलोलाङ्गलीकः पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि ॥' अत्राश्रु - स्तम्भ - स्वेद-वेपथुरूपाश्चत्वारः सात्त्विकभावाः । 'सर्वाङ्गीणविसारिभूरिपुलकोद्भेदत्रुटत्कञ्चकाः स्वाकूतं गुरुबाष्पगद्गदगिरा सख्यै गिरन्त्यो मुहुः । प्राप्तव्यः कथमेष वल्लभ इति म्लायन्मुखास्त्वाममूः श्रीमद्वाग्भट वीक्ष्य चित्रलिखितप्रख्या मृगाक्ष्योऽभवन् ॥' अत्र रोमाञ्च स्वरभेद-वैवर्ण्य प्रलापाश्चत्वारः सात्त्विकभावाः ।
एवं च नव स्थायिनस्त्रयस्त्रिंशद्व्यभिचारिणोऽष्टौ सात्त्विका इति पञ्चाशद् भावा बभूवुः ॥
अथैतानभिधाय तदाभासानाह
१४५
तत्र वृक्षादिष्वनौचित्येनारोप्यमाणौ रसभावौ रसभावाभासतां भजतः ॥२३॥
यथा
'मधुर्द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । श्रृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥ ' अनौचित्येन यथा
'तद्वक्त्रं यदि मुद्रिता शशिकथा तच्चेत् स्मितं का सुधा सा दृष्टिर्यदि हारितं कुवलयैस्ताश्चेगिरो धिङ्मधु । सा चेत् कान्तिरतन्त्रमेव कनकं किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः ॥ '
१४६
अत्रानुरागविमुखायां सीतायां रावणस्योक्तिः । आदिशब्दाच्चन्द्रादीनां यथा
'अङ्गुलीभिरिव केशसञ्चयं सन्निरुध्य तिमिरं मरीचिभिः । कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥' अस्मिन्नुदाहरणद्वये सम्भोगशृङ्गाररसाभासः । एवमन्येऽपि रसाभासा भावाभासाश्चोदाहर्तव्याः ॥
काव्यानुशासनम्
अथ रसानभिधाय दोषानाह
स्वशब्दोक्ति-विभावादिप्रातिकूल्य - प्रकृतिव्यत्ययविभावानुभावक्लेशव्यक्ति पुनः पुनर्दीप्त्यकाण्डप्रथनाकाण्डाच्छेदाङ्गातिविस्तराङ्ग्यननुसन्धानानङ्गाभिधाना दश
रसदोषाः ॥२४॥
रसस्थायिव्यभिचारिणां स्वशब्देन वाच्यत्वं स्वशब्दोक्तिः
॥२५॥
तत्र रसानां स्वशब्दोपादानं यथा
'शृङ्गारी गिरिजानने सकरुणो रत्यां प्रवीरः स्मरे बीभत्सोऽस्थिभिरुत्फणी च भयकृन्मूर्त्याद्भुतस्तुङ्गया ।
रौद्रो दक्षविमर्दने च हसकृन्नग्नः प्रशान्तश्चिरादित्थं सर्वरसात्मकः पशुपतिर्भूयात् सतां भूतये ॥' स्थायिनां यथा
'रूपनिर्जितकन्दर्पे नयनानन्ददायिनि । अभूत्तस्या रतिः कापि प्रिये चाटुविधायिनि ॥ ' अत्र रतिशब्दाः ।
व्यभिचारिणां यथा