________________
तृतीयोऽध्यायः
क्वचिदविधिनिषेधे तूभयं यथा'अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाम्भोधय स्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्धव स्तावद्विभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥'
एवमादिभेदैर्ध्वनितोक्तिर्भवति । परं ग्रन्थगौरवभयादस्माभिर्नोदाहियते । स प्रपञ्चस्त्वा नन्दवर्धनादधगन्तव्यः ।
अत्युक्तिरतिशयोक्तिः ॥१४॥ यथा'त्वद्दारितारितरुणीश्वसितानलेन संमूच्छितोर्मिषु महोदधिषु क्षितीशाः । अन्तर्लुलगिरिपरस्परश्रृङ्गसङ्गघोरास्वैर्मुररिपोरपयाति निद्रा ॥' यथा च'उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥' सहभावकथनं सहोक्तिः ॥१५॥ यथा'सह दिअसनिसाइँ दीहरा सासदण्डा सह मणिवलएहिं बाहधारा गलंति । तुह सुहअ विओए तीइ उव्विग्गरीए सह अ तणुलदाए दुब्बला जीविदासा ॥' [छायाः सह दिवसनिशाभिर्दीर्घाः श्वासदण्डाः सह मणिवलयैर्बाष्पधारा गलन्ति ।
काव्यानुशासनम् तव सुभग वियोगे तस्या उद्वेगशीलायाः सह च तनुलताया दुर्बला जीविताशा ॥'] प्रतिषेधपुरःसरोक्तिराक्षेपः ॥१६॥
यत्रोक्तौ कस्यचिदुपमानादेर्वस्तुनः प्रतिषेधः प्रतीयते स आक्षेपः । यथा
'तद्वक्त्रं यदि मुद्रिता शशिकला तच्चेत्स्मितं का सुधा सा दृष्टिर्यदि हारितं कुवलयैस्ताश्चेगिरो धिङ्मधु । सा चेत् कान्तिरतन्त्रमेव कनकं किं वा बहु ब्रूमहे यत्सत्यं पुनरुक्तवस्तुविरसः सृष्टिक्रमो वेधसः ॥' यथा च'ए एहि कि पि कीएवि कए णिक्किव भणामि अलमहवा । अविआरिअकज्जारंभआरिणी मरउ ण भणिस्सं ॥'
[छाया:-अये एहि किमपि कस्या अपि कृते निष्कृप ! भणाम्यलमथवा। अविचारितकार्यारम्भकारिणी म्रियतां न भणिष्ये ॥]
अयं च भूत-भविष्यद्वर्तमान-धर्म-कारण-कार्यानुज्ञा-प्रभुत्वानादराशीर्वचन-परुषसाचिव्य-परवशोपाय-रोषानुशयार्थान्तरप्रतिषेधादिभेदैरनेकधा भवति । तस्य च नात्र विस्तरः ॥
अविरोधेऽपि विरोधप्रतीतिविरोधः । साक्षाद्विरोधे तु काव्यत्वासंभवात् ॥१७॥
यथा'दिशामलीकालकभङ्गतां गत स्त्रयीवधूकर्णतमालपल्लवः । चकार यस्याध्वरधूमसंचयो मलीमसः शुक्लतरं निजं यशः ॥'