________________
तृतीयोऽध्यायः
यथा च
'ब्रह्मण्योऽपि ब्रह्मवित्तापहारी स्त्रीयुक्तोऽपि प्रायशो विप्रयुक्तः । सद्वेषोऽपि द्वेषनिर्मुक्तचित्तः
को वा तादृग् दृश्यते श्रूयते वा ॥ '
विशेषस्य सामान्येन समर्थनमर्थान्तरन्यासः ॥१७॥ साधर्म्येण वैधर्म्येण च ॥ १८ ॥
तत्र साधर्म्येण यथा
'अधिकुचतटं पौष्यं दाम श्रुती किसलाचिते विसवलयितौ पाणी श्रोणीलता रसनाञ्चिता । तदपि च तनोर्लक्ष्मीरस्याः स्फुरत्यपदं गिरां प्रकृतिसुभगे पात्रे वेषो य एव स एव वा ॥' वैधर्म्येण यथा
'अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् ।
त एव धन्याः सुहृदां पराभवं
जगत्यदृष्ट्वैव हि ये क्षयं गताः ॥'
८७
अयं च श्लेषाविद्ध-विश्वव्यापिविशेषस्थविरोधवद-युक्तकारियुक्ता
युक्तादिभेदैरनेकधा भवति ।
तत्र श्लेषाविद्धो यथा
'दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् । क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैः शिरसां सतीव ॥'
स्तुतौ निन्दा निन्दायां स्तुतिर्यत्र पर्यवसीयते सा व्याज
स्तुतिः ॥१९॥
८८
काव्यानुशासनम्
स्तुतौ निन्दा यथा
'हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशोभारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ।।' निन्दायां स्तुतिर्यथा
'कीर्तिस्तव कालपात्मजेन्दो भ्रमतितरां भुवनं समग्रमेतत् । अपरजनविलक्षणं तवेदं नौपच्छन्दसका वयं भवामः ॥ ' यथा च
'अस्माकं परमन्दिरस्य चरितं वक्तुं न युक्तं भवेत् स्वामी त्वं कथयामि तेन भवतः किञ्चित् प्रियादूषणम् । स्वामिन् राम कृतस्त्वया रणगृहे पाणिग्रहः सादरं
यस्याः सासिलता परस्य हृदये दृष्टा लुठन्ती मया ॥' साम्यस्य भेदकारणस्य चोक्तौ यद्द्द्वयोर्भेदकारणं स व्यतिरेकः ॥२०॥
यत्र साम्यस्य सादृश्यस्योक्तावनुक्तौ वा भेदकारणस्य च धर्मस्योक्तावनुक्तौ वा यद्द्द्वयोरुपमानोपमेययोर्भेदकारणं स व्यतिरेकः । तत्र सादृश्यभेदयोरुक्तौ यथा
'रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः
सर्वं तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥'
स च सदृश-स्वजाति - एकानेक- श्लेषाक्षेपहेतुभेदैरनेकधा भवति ॥ २१ ॥