________________
८३
तृतीयोऽध्यायः
त्वयाऽऽरब्धं जन्म क्षपयितुमयुक्तेन विधिना न नो गोत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत् ॥'
अत्र नास्मत्कुले सतीकलङ्कोऽभूदिति निषेधे नैकभर्तृतत्परतया त्वयापि स्थातव्यमिति निषेधः प्रतीयते ।।
क्वचिदविधिनिषेधे विधिर्यथा'शुभे वृद्धः कोऽयं गृहपरिवृढः किं तव पिता न मे भर्ता रात्रावपगतगन्यच्च बधिरः । हुहुं९ श्रान्तोऽहं शिशयिषुरिहैवापवरके क्व यामिन्यां यामि स्वपिमि ननु निर्देशमशके ॥' अत्राहं त्वदर्थी अत्रैव स्थास्यामीति विधिः प्रतीयते । क्वचिदप्यविधिनिषेधे निषेधो यथाचंकभणियाई कत्तो कत्तो अद्धछिपिछियव्वाइं । उससियंपि मुणिज्जइ छइल्लपुरे हयग्गामे ॥'
अत्रास्मिन् विदग्धजनमये ग्रामे प्रच्छन्नकामुकं प्रति त्वया रतिर्न कर्तव्येति कयाचित् कां प्रति निषेधः क्रियते ।।
क्वचिद्विधिनिषेधयोविध्यन्तरं यथा'आसन्नकुडुंगेज्जन्नादेउलेबहुन्नदेउलेज्जयाणसंकिण्णे । थेरुत्तिपइ मा रुअसु पुत्ति दिण्णासि सुग्गामे ॥'
अत्र मा रोदी:, सुग्रामे दत्तासीति विधिनिषेधयोस्त्वया स्वैरं वर्तितव्यमिति विध्यन्तरं प्रतीयते ।।
क्वचिद्विधिनिषेधयोनिषेधान्तरम् । यथा'उच्चिणसु पडिअ कुसुमं मा धुन सेहालिअं हलिअसुन्हे । एस अवसाणविरसो ससुरेण सुओ वलयसद्दो ॥' [छाया:- उच्चिनुष्व पतितानि कुसुमानि मा धुनु शेकालिका
८४
काव्यानुशासनम् हलिकस्नुषे । एषोऽवसानविरस: श्वशुरेण श्रुतो वलयशब्दः ।]
अत्र पतितं कुसुममुच्चिनु मा शेफालिकां धुनीहीति विधिनिषेधयोरभिधाने सखि, चौर्यरते प्रसक्तया त्वया वलयशब्दो न कर्तव्य इति निषेधान्तरं प्रतीयते ॥
क्वचिद्विधावनुभयं यथा'द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम् । आनीतं पुरतः शिरोंऽशुकमध:क्लृप्ते चले लोचने । वाचां तच्च(त्र) निवारितं विव( प्रस )रणं सोचिते दोलते ॥' अत्र तयैतत्कृतमिति विधौ सानुरागिणीवेति न प्रतीयते । क्वचिन्निषेधेऽनुभयं यथा'नि:शेषच्युतचन्दनं स्तनतटं प्रोन्मुक्तरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तथेयं तनुः । मिथ्यावादिनी दूति ! बान्धवजनस्याज्ञातपीडागमा वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥'
अत्र त्वं तस्यान्तिकं न गतासीति निषेधे प्रतीयमानेऽपि स त्वथा मत्प्रियः कामित इति व्यज्यते ॥
क्वचिद्विधिनिषेधयोरनुभयं यथा'चन्द तुम न गणिज्जसि जाव इमो बहलपत्तलछाओ । गामस्स तिलअभूओ सहइ वडो किण्हपरकुव्व ॥' [छायाः 'चन्द्र त्वं न गण्यसे यावदेष बहलपत्रच्छायः । ग्रामस्य तिलकभूतः शोभते वट........]
चन्द्र त्वं न गण्यसे यावदेष वट: शोभते इति विधिनिषेधयोरुक्तवनेनापि वटेन चौर्यरतादिगोपनं भवतीति व्यज्यते ।।