________________
A
गा.-२५
बन्धशतकप्रकरणम्
A
प्राणातिपातानृतभाषणादिरतो जिनपूजाविघ्नकर: सावधादिदोषोपेतत्वाद् गृहिणामप्येषा अविधेयेत्यादि कुदेशनादिभिः समयान्तस्तत्त्वदूरीकृतो जिनपूजानिषेधक इत्यर्थः । तथा मोक्षमार्गस्य ज्ञानादेविघ्नकरस्तद्दोषग्रहणादिना केनचित्प्रकारेण तस्य विघ्नं करोति । साधुभ्यो वा भक्तपानोपाश्रयोपकरणभेषजादिकं दीयमानं निवारयति । तेन चैतत्कुर्वता मोक्षमार्गः सर्वोऽपि विनितो भवति । तथा अपरेषामपि सत्त्वानां दानलाभभोगपरिभोगविलं करोति, मन्त्रादिप्रयोगेण च परस्य वीर्यमपहरति । हठाच्च वधबन्धनिरोधादिभिः परं निश्चेष्टं करोति । छेदनभेदनादिभिः परस्येन्द्रियशक्तिमुपहन्ति स किमित्याह-अर्जयतिनिर्वर्त्तयति पञ्चप्रकारमपि अन्तरायं कर्म, येनार्जितेन सता दानभोगादिलाभम् ईप्सितं कञ्चिद् न लभत इति गाथार्थः ॥२६॥ भा०पडणीय अंतराइय इच्चाइ इगारसाहि गाहाहिं । तासिं अत्थो सुगमो अह य भणइ जेसु ठाणेसु ॥१४५॥
बंधं उदयमुदीरणविहिं च एयस्स एस भावत्थो । जेसु ठाणेसु गुणसन्निएसुं बंधाइया हुंति ॥१४६॥ तिन्नि वि दाराओ तत्थ बंधठाणा उ मूलपयडीणं । 'बंधट्ठाण इमाए गाहाए आह तर्हि पढमं ॥१४७॥ बंधुदयुदीरणाणं भावत्थोऽयं भणिज्जइ तत्थ । मिच्छाइबंधहेऊहिं वासपुन्नसमुग्गो व्व ॥१४८॥ सव्वत्तो वि हु पुग्गलनिचिए लोयम्मि कम्मजोगेहिं । इह कम्मवग्गणा पुग्गलेहि जीवस्स सव्वत्तो ॥१४९॥
१. 'बन्धट्ठाणा चउरो' इति प्रक्षिप्तगाथया ।