________________
बन्धशतक प्रकरणम्
गोत्रस्य द्विविधस्यापि बन्धहेतूनाह
अरहंताइसु भत्तो सुत्तरुई पयणुमाण गुणपेही । बंधइ उच्चागोयं विवरीए बंधइ अ इअरं ॥२५॥
अर्हतामादिशब्दात् सिद्धाचार्योपाध्यायसाधुचैत्यानामन्येषां च गुणगरिष्ठानां भक्तः - बहुमानपरस्तथा सूत्ररुचिः । किमुक्तं भवति - जिनवचनमनवरतं स्वयं पठति, परांश्च पाठयत्यर्थतश्च स्वयमभीक्ष्णं विमृशति, परेषां च व्याख्यानयति, असत्यां वा | तत्पठनादिशक्तौ तीव्रबहुमानतस्तदुक्तमर्थं श्रद्धानोऽपि सूत्ररुचिरित्युच्यते । तथा प्रतनुमानो विशिष्टजातिकुलरूपैश्वर्यादिसम्पन्नोऽपि निरहङ्कारः पराऽपरिभवनशीलः, तथा गुणप्रेक्षी यस्य यावन्तं गुणं पश्यति तस्य तमेव प्रेक्षते, दोषेषु सत्स्वपि | उदास्त इत्यर्थः । गुणाधिकेषु च नीचैर्वृत्त्या वर्त्तमानः परपरिवादादिदोषरहितश्च उच्चैर्गोत्रं बध्नाति । भणितगुणविपर्यये तु नीचैर्गोत्रं बध्नातीति गाथार्थः ॥ २५ ॥
साम्प्रतमन्तरायस्य बन्धहेतूनाह
पाणिवहाईसु रओ जिणपूयामोक्खमग्गविग्घकरो । अज्जेइ अंतरायं न लहइ जेणिच्छियं लाभं ॥ २६ ॥
गा.-२५२६
८२