SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् उदकराजिसमानकषायत्वे तदुचितशुभपरिणामे च सति व्यन्तरादिप्रायोग्यं किञ्चिद्देवायुर्बध्यते । सम्यग्दृष्टिग्रहणेन त्वविरतसम्यग्दृष्टिर्गृह्यते । सोऽप्यविराधितसम्यक्त्वगुणो देवायुर्बध्नातीति गाथार्थः ॥२३॥ नामकर्म यद्यपि द्विचत्वारिंशदादिभेदादनेकधा, तथापि शुभाशुभभेदविवक्षया द्विविधमेवेति । द्विविधस्यापि बन्धहेतूनाहमणवयणकायवंको माइल्लो गारवेहि पडिबद्धो । असुहं बंधन नामं तप्पडिवक्खेहि सुहनामं ॥२४॥ मनोवाक्कायवक्रः कषायचतुष्टयावेशपूर्वकचिन्तन भाषणचेष्टाप्रवृत्तिरित्यर्थः, तत्रापि मायाकषायस्याधिक्यप्रदर्शनार्थमाह'माइल्लो 'त्ति सर्वत्र मायाप्रधानसमाचार इत्यर्थः । गौरवेषु - ऋद्धिरससातलक्षणेषु प्रतिबद्धोः अशुभं नरकगत्ययश:कीर्त्त्यकेन्द्रियजात्यादिरूपं, नामकर्म बध्नाति । उक्तदोषप्रतिपक्षैस्तु प्राञ्जलमनोव्यापारादिभिर्देवगत्यादिकं शुभनाम बध्नाति । एतदुक्तं भवति-क्रोधाद्युत्कटतया प्राणिगणाङ्गोपाङ्गादिकर्त्तनया परवैरूप्यापादनेन, परनिरीक्षितभाषितगत्यादिचेष्टोपहासेन, विशिष्टद्रव्यान्तर्गतकुद्रव्यविक्रयेण स्वभावतो वर्णगन्धादिरहितद्रव्याणां कृत्रिमतदुत्पादनेन, कृत्रिमहेमरत्नघुसृणघनसारादिनिर्वर्त्तनेन, सर्वत्र विसंवादिव्यवहारतया, प्राणिवधादिभिश्चाशुभं नाम निर्वर्त्तयति । विपर्यये तु विपर्यय इति गाथार्थः ॥२४॥ गा. - २४ ८१
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy