________________
बन्धशतक प्रकरणम्
अग्गीअयपिंडो इव अन्नोन्नाणुगमसरिससंबंधो । बंधो भन्नइ तेसिं जहट्ठिईए अवाणं ॥ १५०॥ पुग्गलाणं अपवत्तणकरणविसेसा सभावओ वावि । उदयप्पत्ताण विवागवेयणं होइ इह उदओ ॥ १५१ ॥ तेसिंपि पुग्गलाणं अकालपत्ताण उदयआवलिया । समइच्छियाण जीवप्पभावओ तत्थ दुइयाए ॥ १५२ ॥ जं किर उदयावलिए पवेसणं सा उदीरणा भणिया । तिन्हंपि य संजोगो (गं) एयपयत्थो सुगमेव ॥ १५३ ॥ एगछसगट्टभेया बंधट्ठाणा हवंति ते चउरो । चउसत्तअट्ठउदयद्वाणा सत्तट्ठ छप्पंच ॥१५४॥ दुन्नि य उदीरणाए इय भावणिया उ वित्तिओ नेया । अह पत्तेयं पभणड़ बंधुदयाईणि उ गुणेसु ॥१५५॥ तदेवं सामान्यतो विशेषतश्च कर्मणः प्रत्यया निरूपिताः, साम्प्रतं द्वारगाथाद्वये यत् प्रतिज्ञातं 'जेसु ठाणेसु बंधं उदयमुदीरणविहिं चे' इत्यादि तत् प्रतन्यते । तत्र बन्धस्थानानि तावन्मूलप्रकृतीनां चत्वारि भवन्ति । तद्यथा-सप्तविधबन्धोऽष्टविधबन्धः षड्विधबन्ध एकविधबन्धश्चेति । तत्र सूक्ष्मसम्परायादर्वाक् सर्वसंसारिणामायुर्बन्धकालादन्यत्र प्रतिसमयमायुर्वर्ज्याः सप्त कर्मप्रकृतीर्बध्नतां सप्तविधबन्धः । तेषामेव यथासम्भवमायुर्बन्धतामष्टविधबन्धः । सूक्ष्मसम्परायस्य त्वेकस्य मोहायुर्वर्ज्या षट्प्रकृतीर्बन्धतः षड्विधबन्धः । उपशान्तमोहादीनां त्वेकमेव सातं बध्नतामेकविधबन्धः । उदयस्थानानि तु त्रीणि भवन्ति, तद्यथा - अष्टविधस्योदीरणा सप्तविधस्य षड्विधस्य पञ्चविधस्य द्विविधस्य चेति । तत्र परिपूर्णा अष्टापि कर्मप्रकृतीरुदीरयतामष्टविधस्योदीरणा भवति । वक्ष्यमाणयुक्त्या त्वायुष उदीरणायामपगतायां सप्तविधस्य, वेदनीया
P
P
गा.-२५२६
८४