SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ बन्धशतक गा.-२७ प्रकरणम् युषोस्तूदीरणायामपगतायां षड्विधस्य, वेदनीयायुर्मोहनीयोदीरणायां त्वपगतायां पञ्चविधस्य, नामगोत्रे एव केवले उदीरयतां । क्षीणमोहसयोगिकेवलिनां द्विविधस्योदीरणा भवति । तदुक्तम्'बंधट्ठाणा चउरो तिन्नि य उदयस्स हुँति ठाणाणि । पंच उदीरणाए मूलप्पयडीसु ठाणाणि (संजोगं अओ परं वोच्छं) ॥१॥ इयं च गाथा किञ्चिद्वाचनाभेदतः सूत्रेऽपि दृश्यते । किन्तु प्रक्षेपकत्वान्न प्रत्यक्षरं विवियते । स्वयं तूक्तानुसारतो भावनीयेति । तत्र यथोद्देशं निर्देश इति कृत्वा बन्धस्थानानि तावद् गुणस्थानेषु चिन्तयति छसु ठाणगेसु सत्तट्टविहं बंधंति तिसु य सत्तविहं । छव्विहमेगो तिन्नेगबंधगाऽबंधगो एगो ॥२७॥ मिथ्यादृष्टिसास्वादनाविरतदेशविरतप्रमत्ताप्रमत्तगुणस्थानलक्षणेषु षट्सु स्थानेषु वर्तमाना जीवाः सप्तविधमष्टविधं वा | बध्नन्ति । तत्रायुर्बन्धकालादन्यत्रानुसमयं सप्तविधं बध्नन्ति । आयुर्बन्धकाले त्वायुषा सहाऽष्टविधं बध्नन्ति । 'तिसु य सत्तविहं' ति चः पुनरर्थे, त्रिषु पुनः सम्यमिथ्यादृष्ट्यपूर्वकरणानिवृत्तिबादरगुणस्थानेषु वर्तमाना जन्तवः सप्तविधमेव बध्नन्ति । १. बन्धस्थानानि चत्वारि त्रीणि चोदयस्य भवन्ति स्थानानि । पञ्च चोदीरणायां मूलप्रकृतिसु स्थानानि (संयोगमतः परं वक्ष्ये) ॥१॥
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy