________________
बन्धशतक
प्रकरणम्
उम्मग्गदेसओ मग्गनासओ गूढहिययमाइल्लो । सढसीलो य ससल्लो तिरियाउं बंधनए जीवो ॥२१॥
उन्मार्गं भवहेतुं मोक्षहेतुत्वेन दिशति, मार्गं च ज्ञानादिकं नाशयति- अपलपति, गूढहृदयो नाम उदायिनृपमारकादिवत्तथाऽऽत्माभिप्रायं सर्वथैव निगूहति यथा नापर: कश्चिद्वेत्ति । माइल्लशब्देन तु वक्रबहिश्चेष्टो गृह्यते । सढसीलो नाम वचसा मधुरः परिणामे तु दारुणः । 'ससल्लो'त्ति रागादिवशाचीर्णानेकव्रतनियमातिचारः स्खलदन्तः शल्योऽनालोचिताऽप्रतिक्रान्तो जीवः क्षितिभेदसमकषायोऽल्पारम्भोऽपि तिर्यगायुर्बध्नातीति गाथार्थ: ॥२१॥
मनुष्यायुषः प्राह
पयई तणुकसाओ दाणरओ सीलसंजमविहूणो । मज्झिमगुणेहि जुत्तो मणुयाउं बंधनए जीवो ॥२२॥
प्रकृत्या-स्वभावेनैव तनुकषायो रेणुराजिसमानकषाय इत्यर्थः, उपलक्षणं चैतत्, ततश्च प्रकृत्या भद्रको विनीतः, सदयोऽमत्सर इत्यपि द्रष्टव्यम् । यत्र तत्र वा दानरतः शीलसंयमवियुक्तः, तद्युक्तो हि बन्धसम्भवे देवायुरेव बध्नीयादिति भावः । किं बहुना ? क्षान्तिविनयादिभिर्मध्यमैस्तदुचितैः कैश्चिद् गुणैर्युक्तो जीवो मनुष्यायुर्बध्नाति । ततोऽधमगुणस्य नरकतिर्यगायुः सम्भवादुत्तमगुणस्य तु सिद्धेः सुरलोकायुषो वा सम्भवादिति भाव इति गाथार्थः ॥२२॥
गा.-२१२२
७९