________________
गा.-२०
बन्धशतक-A प्रकरणम्
रतिविघ्नकरोऽरत्युत्पादकः पापजनसङ्गतरतिश्चारतिमोहनीयं बध्नाति । नष्टमृतादिषु स्वयं शोचति, परांश्च शोचयति परव्यसनशोकाभिनन्दी शोकमोहनीयं बनाति । स्वयं बिभेति परांश्च भीषयते भयमोहनीयं बध्नाति । स्वयं साधुजनादिकं . जुगुप्सते परस्य जुगुप्सामुत्पादयति परं परिवादविधिशीलो जुगुप्सामोहनीयमभिनिर्वर्त्तयतीति गाथार्थः ॥१९॥
नरकादिभेदेनायुश्चतुर्धा तत्र नारकायुषो हेतूनाह
मिच्छद्दिट्ठी महारंभपरिग्गहो तिव्वलोहनिस्सीलो । निरयाउयं निबंधइ पावमई रुद्दपरिणामो ॥२०॥
मिथ्यादृष्टिः सद्धर्मदूरीकृतस्तथा महान्तौ बहुजीवविघातकत्वेनारम्भपरिग्रही यस्य स तथा तीव्रानन्तानुबन्धिलोभो निःशीलो निर्मर्यादो व्रतनियममार्गदूरीभूतश्चाग्निरिव सर्वभक्षीत्यर्थः । सदैव पापेऽगम्यगमनापेयपानाभक्ष्यभक्षणहिंसादिलक्षणे मतिर्यस्य स तथा रौद्रपरिणामो गिरिभेदसमकषायै रौद्रध्यानरुषितचेतोवृत्तिरित्यर्थः, स किमित्याह-नारकायुर्नितरां बनातीति गाथार्थः ॥२०॥
तिर्यगायुषः प्राह