________________
गा.-१९
बन्धशतकप्रकरणम्
तिव्वकसाओ बहुमोहपरिणओ रागदोससंजुत्तो ।
बंधनइ चरित्तमोहं दुविहं पि चरित्तगुणघाइं ॥१९॥ तीव्राः कषायाः क्रोधादयो यस्य स तथा मोहशब्देन तु विषयगाद्ध्यालम्बनो मतिविभ्रमो विवक्षितः, ततश्च | बहुमोहपरिणतो विषयगृद्धिविभ्रमितमतिरित्यर्थः, रागशब्देन चेहोद्धरितशेषाः हास्यरत्यादयो विवक्ष्यन्ते । द्वेषशब्देन च | जुगुप्सादयः, ततश्चोक्तस्वरूपाभ्यां रागद्वेषाभ्यां संयुक्तः, किमित्याह-बध्नाति चारित्रमोहनीयं वक्ष्यमाणशब्दार्थं कतिविधमित्याह-द्विविधमपि कषायचारित्रमोहनीयं नोकषायचारित्रमोहनीयं चेत्यर्थः, यत्कथम्भूतमित्याह-चरित्रगुणं लब्धमपि । हन्तीत्येवंशीलं चरित्रगुणघाति । यदिति अयं च सामान्यार्थो विशेषतस्त्वेवमवगन्तव्यम्, कषायचारित्रमोहनीये क्रोधादयश्चत्वारः कषायास्तत्र च तीव्रकोपोपयुक्तस्तीव्र कोपमेव बध्नाति । तीव्रमानोपयुक्तस्तु तीव्र मानमेवोपरचयत्येवं मायालोभयोरपि वाच्यम् । नोकषायचारित्रमोहनीये तु वेदत्रयं हास्यषट्कं च, अत्रापि कोपनोऽहङ्कारी परदाररतिप्रियो व्यलीकभाषी ईर्ष्यालुायाप्रधानसमाचारः स्त्रीवेदमुपरचयति । ऋजुसमाचारो मन्दकोपो मार्दवसम्पन्नः स्वदाररतिप्रियोऽमायावी पुरुषवेदं निर्वर्त्तयति । पिशुनो निर्लाञ्छनबन्धनताडनादिरतः स्त्रीणां नृणां वाऽनङ्गसेवनशीलः शीलव्रतसुस्थितपाखण्डिनां कुयुक्तिभ्यां भोगभिलाषाद्युत्पादनेन मार्गभ्रंशकारी तीव्रविषयरतिर्नपुंसकवेदं बध्नाति । स्वयं हसनशीलः परांश्च हासयति बहुविधं च परविप्लवं करोति, कन्दर्परतिश्च हास्यमोहनीयं बध्नाति । स्वयं च क्रीडति परांश्च क्रीडयति दुःखाऽनुत्पादकश्च रतिमोहनीयं बध्नाति । परेषां
७७
AAA