SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् सो बंधो पत्तेयं कम्माण विसेसंबंधहेऊहिं । नाणपओसाईहिं जह होड़ तहा भइ इहि ॥१४४॥ इदानीं 'होड़ जड़' त्ति द्वारप्रतिज्ञातान् विशेषप्रत्ययान् बिभणिषुर्ज्ञानदर्शनावरणयोस्तावदाह पडणीयअंतराइय उवघाए तप्पओसनिन्हवणे । आवरणदुगं भूओ बंधइ अच्चासणाए य ॥१६॥ इह प्राकृतत्वादार्षत्वाच्च विभक्तिव्यत्ययादिना तात्पर्यव्याख्या क्रियते । तत्र आवरणद्विकं ज्ञानावरणदर्शनावरणरूपम्, अत्र च ज्ञानस्य मत्यादेर्ज्ञानिनां साध्वादीनां ज्ञानसाधनस्य च पुस्तकादेः प्रत्यनीकतया तदनिष्टाचरणरूपया ज्ञानावरणं कर्म भूयो - अतितीव्रं बध्नातीति सण्टङ्कः । तथा अन्तरायेण-भक्तपानवस्त्रो पाश्रयलाभनिवारणादिरूपेण, उपघातेन-निर्मूलतो विनाशस्वरूपेण, तत्प्रद्वेषेण ज्ञानादिविषये आन्तराप्रीतिरूपेण, निह्नवेन न मया तत्समीपेऽधीतमिदमित्यादिरूपेण, अत्याशातनया च - जात्याद्युद्घट्टनादिहीलारूपतया तीव्रं ज्ञानावरणं बध्नातीति सर्वत्र द्रष्टव्यम् । एतच्चोपलक्षणमात्रमतो ज्ञानावर्णवादेन, आचार्योपाध्यायाद्यविनयेन, अकालस्वाध्यायकरणेन, कालेन स्वाध्यायाविधानेन, प्राणिवधानृतभाषणस्तैन्याब्रह्मपरिग्रहरात्रिभोजनाऽविरमणादिभिश्च ज्ञानावरणं बध्नातीत्याद्यपि वक्तव्यमिति । एवं दर्शनावरणेऽपि वाच्यम्, नवरं दर्शनाभिलापो वाच्यः, तद्यथा - दर्शनस्य चक्षुर्दर्शनादेर्दर्शनिनां साध्वादीनां दर्शनसाधनस्य च श्रोत्रचक्षुर्नासिकादेः प्रत्यनीकतया गा.-१६ ७४
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy