________________
गा.-१७
बन्धशतकप्रकरणम् ।
तदनिष्टाचरणरूपतया दर्शनावरणं भूयोऽतितीव्र बनातीत्येवमिहापि सम्बन्धः । एवमन्तरायादयोऽपि हेतवस्तदुचितत्वेनोत्प्रेक्ष्य योजनीयाः । अत्राप्युपलक्षणमात्रममी । ततोऽलसतया, स्वप्नशीलतया, निद्राबहुमानतो, दर्शनिनां दूषणग्रहणेन, श्रवणकर्त्तननेत्रोत्पाटननाशाच्छेदजिह्वाविकर्तनादिना, प्राणिवधादिभिश्च दर्शनावरणं बनातीत्याद्यपि वाच्यमिति गाथार्थः ॥१६॥
वेदनीयस्य द्विविधस्यापि बन्धहेतूनाह
भूयाणुकंपवयजोगउज्जओ खंतिदाण गुरुभत्तो ।
बंधइ भूओ सायं विवरीए बंधए इयरं ॥१७॥ भूतेषु जन्तुष्वनुकम्पा यस्य स भूतानुकम्पकः व्रतेषु-महाव्रतादिषु, योगेषु-चक्रवालसामाचर्याद्याचरणरूपेषूद्यतो व्रतयोगोद्यतः 'खंतिदाण'त्ति लुप्तमत्वर्थीयत्वात् क्षान्तिदानवानित्यर्थः, गुरुभक्तश्च, किमित्याह-बध्नाति भूयो-अतितीव्र सातवेदनीयम्, उक्तगुणवैपरीत्ये तु बजाति, किमित्याह-इतरदसातवेदनीयमित्यर्थः ।
इदमुक्तं भवति-सानुकम्पतया, दृढधर्मतया, संयमयोगकरणशीलतया, कषायजयतया, यथोदितदानश्रद्धालुतया, बालवृद्धग्लानादिवैयावृत्त्यकरणशीलतया, मातापितृधर्माचार्यादिभक्तितः, जिनचैत्यपूजया, शुभपरिणामादिभिश्च सातवेदनीयं ।
AAA