________________
श्चतुर्विंशतिर्भवति । अपूर्वकरणे त्वतिविशुद्धत्वाद्वैकियमाहारकं च न सम्भवत्येव, ततो वैक्रियाहारकद्वयेऽनन्तरोक्ताप्रकरणम्याश्चतुर्विंशतेरपनीते शेषा द्वाविंशतिर्भवति । अनिवृत्तिबादरस्य तु हास्यादिषट्कस्यापूर्वकरण एव स्थितत्वाच्छेषाः
बन्धशतक
सञ्ज्वलनाश्चत्वारः कषायाः वेदत्रयं नव योगा एते षोडश भवन्ति, यावदद्यापि वेदत्रयं सञ्चलनत्रयं च नापगच्छति, तदपगमे तु यथासम्भवो वाच्यः, सूक्ष्मसम्परायस्य तु वेदत्रयक्रोधमानमायानामनिवृत्तिबादर एव व्यवच्छिन्नत्वाच्छेषा नव योगाः सञ्ज्वलनलोभश्चैते दश भवन्ति । 'जोगपच्चओ तिन्हं' ति त्रयाणामुपशान्तक्षीणमोहसयोगिकेवलिनां योग एव प्रत्ययो यत्र स योगप्रत्ययो बन्धः । स च योग उपशान्तक्षीणमोहयोः प्रत्येकं नवधा भवति, अष्टौ मनोवाग्योगा औदारिककाययोगश्चेति । | सयोगिकेवलिनस्तु योगः सप्तधा पूर्ववद्वक्तव्यः । अयोगी तु प्रत्ययाभावादबन्धक इति । उपसंहरन्नाह - 'सामन्ने 'त्यादि खलुरेवकारार्थः, एत इति च गम्यते, ततश्च सामान्यप्रत्यया एत एवाष्टानां कर्मणां भवन्ति, नान्ये इति ।
अत्र चोत्तरभेदानां सङग्रहगाथा -
'पणपन्न पण्ण तिय छहियचत्त इगुचत्त छक्क चउसहिया । दुजुआ य वीस सोलस दस नव नव सत्त हेऊ उ इति ॥ १ ॥ इति गाथाद्वयार्थः ॥१४॥ १५ ॥
भा० अट्ठण्हवि कम्माणं बंधो एक्वेक्कयंमि गुणठाणे । होइ इइ य वयणाणं अज्झाहारेण इय पुन्नं ॥ १३१ ॥
गा.-१४१५
७२