________________
बन्धशतक
प्रकरणम्
द्वादशविधोऽप्यविरतिप्रत्ययो लभ्यत इति भावः । उपरितनद्विकं च कषाययोगलक्षणं च ।
इदमुक्तं भवति अपरिपूर्णोऽविरतिप्रत्ययः कषायप्रत्ययो योगप्रत्ययश्च यथासम्भवं प्राप्यते । तत्र चाप्रत्याख्याना - वरणोदयस्यास्य निषिद्धत्वादप्रत्याख्यानावरणचतुष्टयम्, तथा विग्रहगतावपर्याप्तकावस्थायां च देशविरतेरभावात् कार्मणौदारिकमिश्रशरीरद्वयं त्रसासंयमान्निवृत्तत्वात् त्रसासंयमश्च न सम्भवति, अत एतानि सप्त पूर्वोक्तायाः षट्चत्वारिंशतोऽपनीयन्ते, तत: शेषा एकोनचत्वारिंशदुत्तरभेदा लभ्यन्ते ।
अत्राह-ननु त्रसासंयमात् सङ्कल्पजादेरेवासौ निवृत्तो न त्वारम्भजादेस्तत्कथं सर्वोऽप्येषोऽपनीयते ? सत्यं, किन्तु गृहिणामशक्यपरिहारत्वेन सन्नप्यारम्भजत्रसाऽसंयमो न विवक्षित इत्यदोषः । एतच्च बृहच्चूर्णिमनुश्रित्य लिखितमिति न स्वमनीषिका भावनीयेति । 'उवरिल्लपंचगे पुण दुपच्चओ 'त्ति देशविरतादुपरितनपञ्चके पुनः प्रमत्तादौ सूक्ष्मसम्परायान्ते द्वौ प्रत्ययौ यत्र स द्विप्रत्ययो बन्धो भवति ।
एतदुक्तं भवति-मिथ्यात्वाविरतिप्रत्ययद्वयस्यैतेष्वभावाच्छेषेण कषाययोगप्रत्ययद्वयेन सम्भवदुत्तरभेदयुक्तेनामी कर्म बध्नन्ति । तत्र प्रमत्तस्य सञ्चलनकषायाश्चत्वारः, नोकषाया नव, योगास्त्वौदारिकमिश्रकार्मणवर्जितास्त्रयोदश, सर्वेऽप्यमी षड्विंशतिरूत्तरभेदा भवन्ति । अप्रमत्तस्य त्वनन्तरोक्तायाः षड्विंशते: पूर्वोक्तयुक्त्या वैक्रियमिश्राहारकमिश्रद्वयेऽपनीते शेषा
गा.-१४
१५
७१