________________
गा.-१४
बन्धशतकप्रकरणम्
१५
आभिग्रहिकश्च येन बोटिकादिकुदर्शनानामन्यतमदभिगृह्णाति । अनाभिग्रहिकमज्ञानाङ्गवादिनामथवा ईषन्माध्यस्थ्यादनभिगृहीतदर्शनविशेषा सर्वदर्शनानि शोभनानीत्येवंरूपा प्रतिपत्तिरिति । पञ्चविधं त्वेकान्तमिथ्यात्वं, वैनयिकमिथ्यात्वं, सांशयिकमिथ्यात्वं, मूढमिथ्यात्वं, विपरीतमिथ्यात्वं चेति । तत्रैकान्तमिथ्यात्वम् अनन्तधर्माध्यासिते वस्तुन्येकांशाऽवधारणरूपम्, यथा 'अस्त्येव जीवो नास्त्येव वा' इत्यादि । ऐहिकामुष्मिकसुखानि सुरनृपादिविनयवानेव लभते, न ज्ञानदर्शनोपवासब्रह्मचर्यादिकष्टकलापादित्यभिनिवेशो वैनयिकमिथ्यात्वम् । संशयमिथ्यात्वं तु पूर्वोक्तमेव । मूढानां तत्त्वादिविचाराऽक्षमाणां पृथिव्यादीनां मिथ्यात्वं मूढमिथ्यात्वम् । विपरीतो विपर्यस्तवस्त्वध्यवसायो मिथ्यात्वं हिंसाऽब्रह्मसेवादीनां वस्तुतो दुःखहेतुत्वेऽप्येत एव तत्त्वतः सुखरूपा इत्यभिनेवेशो विपरीतमिथ्यात्वं, यदाहुरेके
सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे सारं सारङ्गलोचना ॥१॥
प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरः । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥२॥ इत्यादि त्रिषष्ठ्यधिकशतत्रयविधं पुनः, 'असिइसयं किरियाणं अकिरियवाईण होइ चुलसीई । अण्णाणि य सत्तट्ठी वेणइयाणं च बत्तीसं ॥१॥ १. अशीतिशतं क्रियाणामक्रियावादिनां भवति चतुरशीतिः । अज्ञानिनश्च सप्तषष्ठिवैनेयिकानां चः द्वात्रिंशत् ॥१॥