________________
गा.-१४
बन्धशतकप्रकरणम्
चउपच्चइओ बंधो पढमे उवरिमतिगे तिपच्चइओ । मीसगबीओ उवरिमदुगं च देसिक्कदेसम्मि ॥१४॥
१५
उवरिल्लपंचगे पुण दुपच्चओ जोगपच्चओ तिण्हं । सामन्नपच्चया खलु अट्ठण्हं होंति कम्माणं ॥१५॥
प्रत्यया हेतवः कारणानीत्यर्थान्तरम्, ते चेह प्रस्तावाद् ज्ञानावरणादिकर्मबन्धस्य द्रष्टव्याः । तेऽपि सामान्यविशेषभेदाद् द्विधा, तत्रेह सामान्यप्रत्यया उच्यन्ते, विशेषप्रत्ययानां 'होइ जहा' इत्यस्मिन् द्वारेऽनन्तरमेव 'पडणीयमंतराए'इत्यादिना गाथायां । अभिधास्यमानत्वादिति । ते च सामान्यप्रत्ययाः कर्मबन्धस्य चत्वारः, तद्यथा-मिथ्यात्वम् अविरतिः कषाया योगाश्चेति । तत्र मिथ्यात्वं सामान्यतो विपरीतबोधस्वभावतया एकविधमेव, व्यक्तिविवक्षया तु त्रिविधम्, पञ्चविधं वा, त्रिषष्ठ्यधिकशतत्रयविधं वा, अपरिमितभेदं वा । तत्र त्रिविधं-सांशयिकम्, आभिग्रहिकम्, अनाभिग्रहिकं चेति । तत्र सांशयिकं यदर्हता जीवादितत्त्वमुक्तं तन्न जाने किं तथैव स्यादुतान्यथेति, उक्तञ्च
एकस्मिन्नपि तत्त्वे सन्दिग्धे प्रत्ययो जिने नष्टः । मिथ्या च दर्शनं तत्स चादि हेतुर्भवगतानाम् ॥१॥ इति ।
६७