SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ गा.-१४ बन्धशतकप्रकरणम् १५ इत्यादिनाऽऽवश्यकाचारादिष्वभिहितस्वरूपं द्रष्टव्यमिति । अपरिमितभेदं तु 'जावइया नयवाया तावइया चेव हुंति परसमया । जावड्या परसमया तावइया चेव मिच्छत्ता (नयवाया) ॥१॥ इत्यादि द्रष्टव्यमिति । एवमनेकविकल्पसम्भवेऽप्यत्र मध्यमवृत्त्या पञ्चविधमेव मिथ्यात्वं गृह्यते । अविरतिरपि सामान्यतः | सावद्ययोगाऽनिवृत्तिरूपतया एकविधैव । व्यक्तितस्तु यावन्ति हिंसादीनि पापस्थानानि तेभ्योऽनिवृत्तिरूपतयाऽनेकविधा । अत्र तु | मध्यमवृत्त्या द्वादशधा गृह्यते । तद्यथा-पृथिव्यप्तेजोवायुवनस्पतित्रसवधाऽविरतिः षोढा, तथा स्पर्शनरसनघ्राणचक्षुःश्रोत्रमनोविषयेषु शब्दादिषु रागद्वेषाऽनिवृत्तिरूपाऽप्यविरति । षोलैवेति अविरतिरिह द्वादशधा भवति । कषाया अनन्तानुबन्धिक्रोधादयो वक्ष्यमाणस्वरूपाः षोडश । अपरं चेह कषायग्रहणेन वक्ष्यमाणयुक्त्या तत्सहचारिणो वेदत्रयहास्यादिषट्कलक्षणा नोकषाया अपि नव गृह्यन्ते । योगास्तु पूर्वोक्तस्वरूपाः पञ्चदश । तदेवमेते मिथ्यात्वादिसामान्यबन्धहेतूनामुत्तरभेदाः सर्वेऽपि सप्तपञ्चाशद् भवन्ति । मूलप्रत्ययास्तु चत्वार एव । एत एव च सामान्यविवक्षया सूत्रेऽभिहिताः, अतो मिथ्यात्वादयश्चत्वारः प्रत्यया यस्य स चतुष्प्रत्ययः । क इत्याह-बन्धो ज्ञानावरणा १. यावन्तो नयवादास्तावन्त एव भवन्ति परसमयाः । यावन्तः परसमयास्तावन्त एव मिथ्यात्विनः (नयवादाः) ॥१॥
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy