________________
गा.-१३
प्रकरणम्
भवन्ति । देशविरतादीनामप्यस्मिन्नेव मते वैक्रियाभ्युपगमादिति भावः । 'दसेग' त्ति पूर्ववदेव । अन्यच्च पूर्वस्मिन् मते सप्तसु गुणस्थानेषु नव नव योगा उक्ताः, अत्र तु देशविरताप्रमत्तवर्येषु तेष्वेव पंचसु गुणस्थानेषु त एव नव नव योगा मन्तव्याः । देशविरताप्रमत्तयोस्तर्हि का वार्ता इत्याह-'दोसु होंति एक्कार' त्ति द्वयोर्देशविरताप्रमत्तसंयतयोरेकादश एकादश योगा भवन्ति, तत्र देशविरतस्य तावन्नव पूर्वोक्ता एव वैक्रियतन्मिश्रद्विकेन सहैकादश भवन्ति ।
वैक्रियद्विकसम्भवे च कारणमुक्तमेव । अप्रमत्तसंयतस्य तु नव योगाः पूर्वोक्ता एव, आहारकवैक्रियकाययोगसहितास्ते एवैकादश भवन्ति, इदमत्र हृदयम्-वैक्रियमाहारकं वा कुर्वन् प्रारम्भसमये लब्ध्युपजीवनौत्सुक्यसम्भवात्प्रमत्त एव सम्भवीति अप्रमत्तस्य वैक्रियाहारकमिश्रकाययोगौ न सम्भवतः, तत्समाप्तौ पुनरौत्सुक्यनिवृत्तेप्रमत्तोऽप्यस्मिन् मते सम्भवतीति वैक्रियाहारककाययोगावस्य लभ्येते इति ।
आह-ननु सङ्गतमिदं यदत्र मते देशविरतसंयतयोक्रियमुक्तं अम्बडश्रावकविष्णुकुमारस्थूलभद्रादीनां तस्य सुप्रसिद्धत्वात्, पूर्वस्मिस्तु मते कथं तयोस्तस्य प्रतिषेधः, सत्यं, स्वल्पत्वात्सदपि न विवक्षितमिति पश्यामः, तत्त्वं तु केवलिनो विशिष्टश्रुतविदो वा विदन्तीति ।
उत्तरार्द्धं तु गतार्थम्, पूर्वमतेनाविशिष्टत्वादिति गाथार्थः ॥१३॥