________________
गा.-११
बन्धशतकप्रकरणम्
कथम्भूता इत्याह 'व्यामिश्रा' । इदमुक्तं भवति-सम्यङ्मिथ्यादृष्टिरयमुच्यते । ततश्च यावता अंशेनात्र सम्यक्शब्दः प्रवर्त्तते तावता अंशेन ज्ञानमप्यस्य प्रतिपत्तव्यमतो मतिश्रुतावधिज्ञानांशैर्विमिश्रता एतेषां द्रष्टव्या, अत एवावधिज्ञानांशे क्वचिदाश्रित्यावधिदर्शनोपयोगोऽप्यस्योक्तः, अन्यथा हि शुद्धे विभङ्गज्ञाने मिथ्यादृष्टेरिव न मुख्यतया अयमत्रोक्तः स्यात्, मतान्तरगम्यत्वात्तस्येति । एतच्च मिश्रत्वं शाब्दी वृत्तिमाश्रित्य सामर्थ्याऽऽयातत्वेनोच्यते । वस्तुतस्तु ज्ञानस्य गन्धोऽप्यत्र नास्ति, शुद्धसम्यक्त्वमूलत्वेनात्र ज्ञानस्य प्रसिद्धत्वात्, अन्यथा हि यद्यशुद्धसम्यक्त्वस्यापि ज्ञानमभ्युपगम्यते, तदा सास्वादनस्याऽप्यावश्यकादिष्विवात्र ज्ञानाभ्युपगम: स्यात्, न चैतदस्ति, तस्याज्ञानित्वेनानन्तरमेवेह प्रतिपादितत्वात्, इत्यलं विस्तरेण, तत्त्वस्य केवलिगम्यत्वादिति ।
सप्तोपयोगाः सप्तसु प्रमत्तादिषु क्षीणमोहान्तेषु प्राप्यन्ते । तत्राविरतदेशविरतयोर्ये प्रोक्ताः षट् त एव, मन:पर्यायज्ञानोपयोगस्तु सप्तमः । चः पुनरर्थे, तस्य चेत्थं सम्बन्धः, द्वयोः पुनः सयोग्ययोगिगुणस्थानयोः केवलज्ञानकेवलदर्शनोपयोगी द्वौ भवतः, न शेषास्तयोरतीन्द्रियादित्वेन तदसम्भवादिति गाथार्थः ॥११॥ भा० संपइ गुणठाणेसु वि उवओगा दोण्हपंचगाहाए । भावत्थोऽयं तत्थ उ उवओगा मिच्छसासाणे ॥१०२॥
अन्नाणाइ मइसुयविभंगाणि अचक्खुचक्खु इय पणगं । सम्मे देसे मइसुयअवहिदुगं चक्खुअच्चक्खू ॥१०३॥ इय छक्कं एयं चिय मिस्सगुणे मिस्सयं मुणेयव्वं । इह भावणिया मीसम्मि सम्मसद्दो उ अंसेण ॥१०४॥
६०