________________
गाथा-११
बन्धशतकप्रकरणम्
बारस अचक्खुचक्खुसु पढमा लेसासु तिसु छ दोसु सग । सुक्काए तेर गुणा सव्वे भव्वे अभब्वेगं ॥१९॥ वेयगखइयउवसमे चउरो एक्कारसट्ठ तुरियाई । सेसतिगे सट्टाणं सन्निसु चउदस असन्निसु दो ॥१००॥ आहारगेसु पढमा तेरस अणहारगेसु पंच इमे । पढमंतिमदुगदुगअविरया गयाइसु गुणट्ठाणा ॥१०१॥
तदेवं गुणस्थानकानि स्वरूपतो भेदतश्चोक्तानि, विशेषतोऽपि मार्गणद्वारेषु चिन्तितानि, साम्प्रतं 'उवओगा जोगविही'इत्यादिप्रतिज्ञातमनुस्मरन् तेष्वेव गुणस्थानेषूपयोगाँश्चिन्तयन्नाह
दोण्हं पंच उ छच्चेव दोसु एगम्मि होंति वामिस्सा ।
सत्तुवओगा सत्तसु दो चेव य दोसु ठाणेसु ॥११॥ द्वयो:-मिथ्यादृष्टिसास्वादनयोः, तुशब्दस्यैवकारार्थत्वात् पञ्चैव भवन्त्युपयोगाः पूर्वोक्तशब्दार्थाः । तद्यथा-मत्यज्ञानश्रुता| ज्ञानविभङ्गज्ञानोपयोगास्त्रयः, चक्षुरचक्षुर्दर्शनोपयोगौ च । अन्ये त्ववधिदर्शनोपयोगमपि षष्ठमभ्युपगच्छन्ति । तस्य चेहाभ्युपगमानभ्युपगमयोः कारणमनन्तरमेवोक्तमिति । द्वयोः-अविरतदेशविरतयोः, षडेव उपयोगा भवन्ति । मतिश्रुतावधिज्ञानोपयोगास्त्रयः चक्षुरचक्षुरवधिदर्शनोपयोगाश्च त्रय इति सर्वेऽपि षडिति । एकस्मिन् सम्यमिथ्यादृष्टौ भवन्ति, षडेवेत्यत्रापि सम्बध्यते । तद्यथा-मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानोपयोगास्त्रयः चक्षुरचक्षुरवधिदर्शनोपयोगाश्च त्रय इति सर्वेऽपि षडिति । एते च
AAA