________________
बन्धशतक
प्रकरणम्
T
वि' इत्यादि अपूर्वकरणादयः सयोगिपर्यन्ताः शुक्ललेश्यायामेव वर्त्तन्ते । अयोगी त्वलेश्य इति ॥ भव्यद्वारे भव्याभव्यौ सूचितौ, तत्र भव्येषु चतुर्दशापि गुणस्थानानि वर्त्तन्ते, अभव्येषु तु मिथ्यादृष्टिरेव न शेषा:, तेषु सम्यक्त्वाद्यभावादिति । सम्यक्त्वद्वारे . क्षायिकसम्यक्त्वाऽविरतादयोऽयोग्यन्ताः प्राप्यन्ते । क्षायोपशमिकसम्यक्त्वे चाविरतादयोऽप्रमत्तान्ता: । औपशमिकसम्यक्त्वे पुनरविरतादय उपशान्तमोहान्ताः । शेषास्त्वात्मीयात्मीयस्थाने । तद्यथा - मिथ्यादृष्टिर्मिथ्यात्वे, सास्वादनस्तु सास्वादनसम्यक्त्वे, मिश्रस्तु सम्यङ्मिथ्यात्वे वर्त्तत इति । सञ्ज्ञिद्वारे मिथ्यादृष्टिसास्वादनौ सञ्ज्ञिष्वसञ्ज्ञिषु च लभ्येते । सम्यङ्मिथ्यादृष्ट्यादय क्षीणमोहान्ताः पुनः सञ्ज्ञिष्वेव लभ्यन्ते । सयोगिकेवली तु न सञ्ज्ञी, मनोविकल्पातीतत्वात्, नाऽप्यसञ्ज्ञी, मनः पर्याप्तियुक्तत्वादिति । एवमयोगिकेवल्यपि । आहारकद्वारे मिथ्यादृष्टिसास्वादनाविरतसम्यग्दृष्टिसयोगिकेवलिन आहारकेष्वनाहारकेषु च लभ्यन्ते, केवलिनोऽनाहारकत्वं समुद्घातगतस्य तृतीयचतुर्थपञ्चमसमयेषु भावनीयम्, शेषाणां तु विग्रहगताविति । अन्ये त्वयोगिवर्ज्याः सम्यङ्मिथ्यादृष्ट्यादय आहारका एव तद्भावयुक्तानां तेषां विग्रहगत्यभावादिति । अयोगी त्वनाहारक एवेति ||१०||| भा० सुरगाहाए गए गुणा उ सेसेसु मग्गणेसाइ । इगविगलेसुं दो दो पंचिंदीसु चउदस वि ॥९५॥
भूदगतरुसुं दो एगमगणिवाऊ चउद्दस तसेसु । जोए तेरस वेए तिकसाए नव दस य लोभे ॥९६॥ मइसुयओहिदुगे नव अजयाइजयाइ सत्तमणनाणे । केवलदुगम्मि दो तिन्नि दो व पढमा अनाणतिगे ॥९७॥ सामइयछेएसुं चउरो परिहार दो पमत्ताई । देसे सुहुमे सग पढमचरमचउ अजय अक्खाए ॥ ९८ ॥
गाथा १०
५८