SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ बन्धशतक ते अत्थेगइया तिनाणी, अत्थेगइया चउनाणी, जे तिनाणी ते आभिणिबोहियनाणी सुयनाणी ओहिनाणी । जे प्रकरणम् चउनाणी ते आभिणिबोहियनाणी सुयनाणी ओहिनाणी मणपज्जवनाणी । जे अन्नाणी ते नियमा मतिअन्नाणी सुयअन्नाणी विभंगनाणी" । अत्र च ये अज्ञानिनस्ते मिथ्यादृष्टय एवेति मिथ्यादृष्टीनामप्यवधिदर्शनमत्र सूत्रे प्रोक्तम्, एवं यदा विभङ्गज्ञानी सास्वादनत्वे मिश्रत्वे वा वर्त्तते तदा सास्वादनमिश्रयोरप्यवधिदर्शनं लभ्यत इत्यवधिदर्शनेऽपि क्षीणमोहान्तानि द्वादश गुणस्थानानि प्रतिपादयन्त्यमी । ये तु मिथ्यादृष्ट्यादीनामवधिदर्शनं नाभ्युपगच्छन्ति, तदभिप्रायं तु विशिष्टश्रुतविदो | विदन्तीति । केवलदर्शने तु सयोग्ययोगिगुणस्थानद्वयं लभ्यते । लेश्याः कृष्णादिकाः षट् प्रतीता एव । तत्राऽऽद्यानि चत्वारि गुणस्थानानि षट्स्वपि लेश्यासु लभ्यन्ते, देशविरतप्रमत्ताऽप्रमत्तास्तूपरितनविशुद्धलेश्यात्रये वर्त्तन्ते, न पुनरधस्तनकृष्णादिलेश्यात्रये, अमीषां विरतत्वात्तथाविधसङ्कलेशे च विरतेरभावात् । अन्ये त्वभिदधति, देशविरतप्रमत्तौ षट्स्वपि लेश्यासु वर्त्तेते । कृष्णनीलकापोतलेश्यानामपि प्रत्येकमसङ्ख्येयलोकाकाशप्रमाणाध्यवसायस्थानयुक्तत्वात्, मन्दसङ्क्लेशेषु च तदध्यवसायस्थानेषु तथाविधविरतेरपि सद्भावात् । उक्तञ्च प्रज्ञप्त्याम् ""सामाइयसंजएणं भन्ते ! कइसु लेसासु होज्जा । गोयमा ! छसु लेसासु होज्जा । एवं छेओवट्टावणियसंजए ज्ञानिनः । येऽज्ञानिनस्ते नियमात् त्र्यज्ञानिनः, मत्यज्ञानिनः श्रुताज्ञानिनः विभङ्गज्ञानिनः । १. सामायिकसंयतो भदन्त ! कासु लेश्यासु भवेत् ? गौतम ! षट्सु लेश्यासु भवेत् । एवं छेदोपस्थापनीयसंयतोऽपि । गा.-१० ५७
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy