________________
बन्धशतक प्रकरणम्
ज्ञानानि मतिज्ञानादीनि पञ्च तत्र मतिश्रुतावधिष्वविरतादीनि क्षीणमोहान्तानि नव गुणस्थानानि प्राप्यन्ते । मनः पर्यायज्ञाने तु प्रमत्तादीनि क्षीणमोहान्तानि सप्त लभ्यन्ते । केवलज्ञाने तु सयोग्ययोगिगुणस्थानद्वयम् । मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानेषु मिथ्यादृष्टिसासादनमिश्रलक्षणं गुणस्थानत्रयं लभ्यते । संयमः सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातसंयमभेदात्पञ्चधा, तत्राद्यसंयमद्वये प्रमत्तादीन्यनिवृत्तिबादरान्तानि चत्वारि गुणस्थानानि लभ्यन्ते । परिहारविशुद्धिकसंयमे तु प्रमत्ताप्रमत्तसंयतगुणस्थानद्वयमेव लभ्यते । सूक्ष्मसम्परायसंयमे तु सूक्ष्मसम्परायगुणस्थानमेकमेव । यथाख्यातसंयमे तूपशान्त - | मोहादीन्ययोग्यन्तानि चत्वारि गुणस्थानानि लभ्यन्ते । अत्र तु संयमग्रहणेन तत्प्रतिपक्षभूतोऽसंयमः संयमासंयमश्च सूचितः । | तत्रासंयमे मिथ्यादृष्ट्यादीन्यविरतान्तानि चत्वारि गुणस्थानानि । संयमासंयमे त्वेकं देशविरतगुणस्थानं लभ्यत इति ॥ दर्शनं चक्षुरचक्षुरवधिकेवलदर्शनभेदाच्चतुर्धा । तत्राद्यदर्शनद्वये मिथ्यादृष्ट्यादीनि क्षीणमोहान्तानि द्वादशगुणस्थानानि लभ्यन्ते । अवधिदर्शने त्वविरतादीनि क्षीणमोहान्तानि नव गुणस्थानानि लभ्यन्ते । अन्ये तु मिथ्यादृष्ट्यादीनामप्यवधिदर्शनं प्रतिपद्यन्ते, सूत्रे च प्रतिपादितत्वात् तथा च प्रज्ञप्ति:
“१ओहिदंसणअणागारोवउत्ता णं भन्ते ! किं नाणी अन्नाणी ? गोयमा ! नाणी वि अन्नाणी वि । जे नाणी
१. अनाकारावधिदर्शनोपयुक्ता भदन्त ! किं ज्ञानिनोऽज्ञानिनः ? गौतम ! ज्ञानिनोऽप्यज्ञानिनोऽपि । ये ज्ञानिनः ते सन्ति केचनत्रिज्ञानिनः, सन्ति, केचन चतुर्ज्ञानिनो ये विज्ञानिनस्ते आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः । ये चतुर्ज्ञानिनस्त आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनो मन:पर्यय
गा.-१०
५६