SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ गा.-१० बन्धशतक-4 प्रकरणम् | स्वतन्त्राणि न भवन्ति, अतो जीवाश्रयेणैव मार्गणा क्रियते, तत्रेकेन्द्रियादिषु पञ्चेन्द्रियावस्थानेषु जन्तुषु पर्याप्तेष्वपर्याप्तेषु च । सर्वत्र मिथ्यादृष्टिर्लभ्यते । तेजोवायुवर्जप्रत्येकबादरैकेन्द्रियद्वित्रिचतुरिन्द्रियाऽसज्ञिपञ्चेन्द्रियेषु लब्ध्या पर्याप्तेषु करणेन त्वपर्याप्तेषु, सज्ञिपञ्चेन्द्रियेषु पुनर्लब्ध्या पर्याप्तेष्वेव करणेन तु पर्याप्तेष्वपर्याप्तेषु च सास्वादनसम्यग्दृष्टिलभ्यते । शेषाणि तु सम्यग्मिथ्यादृष्ट्यादीनि द्वादशापि गुणस्थानानि सज्ञिपञ्चेन्द्रिये करणेन पर्याप्तक एव लभ्यन्ते । केवलमविरतसम्यग्दृष्टिः करणेनाऽपर्याप्तकेऽपि तस्मिल्लभ्यते । कायः पृथिवीकायादिः त्रसकायान्तः षोढा, तत्र मिथ्यादृष्टिः सर्वत्र लभ्यते । बादरपृथिव्यप्प्रत्येकवनस्पतिकायेषु लब्ध्या पर्याप्तकेषु करणेन त्वपर्याप्तकेषु, त्रसेषु पुनर्लब्ध्याऽपर्याप्तेष्वेव करणेन तु पर्याप्तेष्वपर्याप्तेषु च सास्वादनसम्यग्दृष्टिः प्राप्यते । शेषाणि तु सम्यग्मिथ्यादृष्ट्यादीनि द्वादशापि गुणस्थानानि त्रसेषु करणपर्याप्तकेष्वेव लभ्यन्ते, नवरमसंयतसम्यग्दृष्टिः करणेनापर्याप्तेष्वप्येषु लभ्यते । योगः सामान्येन मनोवाक्कायभेदात् त्रिधा । तत्र च त्रिविधेऽपि योगेऽयोगिवाणि सर्वाण्यपि गुणस्थानानि लभ्यन्ते । वेदः स्त्रीपुन्नपुंसकभेदात् त्रिधा, तत्र त्रिविधेऽपि वेदेऽपूर्वकरणान्तान्यष्टौ गुणस्थानानि प्राप्यन्ते । अनिवृत्तिबादरोऽपि यावदद्यापि वेदान्न क्षपयत्युपशमयति वा तावत् स्वगुणस्थान सङ्ख्येयभागान् यावल्लभ्यते, तत ऊर्ध्वं सर्वेऽप्यवेदकाः । कषायाश्चत्वारः क्रोधादयः । तत्र क्रोधमानमायालक्षणेषु त्रिषु कषायेष्वपूर्वकरणान्तानि अष्टौ गुणस्थानानि लभ्यन्ते । अनिवृत्तिबादरोऽपि यावदमून्न क्षपयत्युपशमयति वा तावत् स्वगुणस्थानकं सङ्ख्येयभागान् यावल्लभ्यते, लोभकषाये तु सूक्ष्मसम्परायान्तानि दश गुणस्थानानि लभ्यन्ते । उपरिष्टात्सर्वेऽकषायाः । AAA AAA
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy