________________
गा.-१०
बन्धशतकप्रकरणम्
A
4
शक्यतेऽतस्तान्येव विशेषनिश्चयार्थं गत्यादिषु मार्गणास्थानेषु मृग्यन्ते
सुरनारएसु चत्तारि होति तिरिएसु जाण पंचेव ।
मणुयगईए उ तहा चोद्दस गुणनामठाणाणि ॥१०॥ तत्र नरकगत्यादिका गतिश्चतुर्विधाऽत आह-सुष्टु राजन्त इति सुरा:-देवाः, नरकेषु भवा नारकाः तेषु मिथ्यादृष्ट्या| दीन्यविरतान्तान्याद्यानि चत्वारि गुणस्थानानि भवन्ति, न देशविरतादीनि, तेषु विरतेरभावादिति । तिर्यक्षु पञ्चैव गुणस्थानानि, चत्वारि पूर्वोक्तानि, पञ्चमं तु तेषु देशविरतेः सद्भावाद्देशविरतलक्षणम्, एतान्येव जानीहि-अवगच्छ न प्रमत्तादीनि, तेषु सर्वविरतेरभावादिति । तुः पुनरर्थे तथेति क्रमद्योतनार्थो, मनुष्यगतौ पुनस्तथा तेनैव क्रमेण चतुर्दशापि 'गुणनामस्थानानि' गुणनामकानि स्थानानि गुणस्थानानीति यावत् जानीहीत्यत्रापि सम्बध्यते । कुतः सर्वाण्यपि ज्ञातव्यानीति चेत् ? उच्यते, मिथ्यात्वादीनां शैलेश्यवस्थान्तानां सर्वभावानामपि तस्यां सम्भवादिति । अत्र च गतेर्गतिमतां चाभेदविवक्षया क्वचिद् गतिमतां । सुरादीनां ग्रहणं, क्वचित्तु साक्षाद् गतेरिति भावनीयमिति गाथार्थः ॥१०॥
तदेवं सूत्रकृता गतिद्वारेण गुणस्थानमार्गणेन दिङ्मात्रदर्शनं कृतम्, इदं चातिसङ्क्षिप्तमिति विनेयजनानुग्रहार्थं शेषेष्विन्द्रियादिद्वारेष्वपि सङ्क्षपतो गुणस्थानानि मृग्यन्ते । तत्रेन्द्रियाणि श्रोत्रादीनि पञ्च, तानि चेन्द्रियवन्तं जीवमन्तरेण |
५४