SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ बन्धशतक-A गा.-९ सूक्ष्मकाययोगं तु सूक्ष्मक्रियानिवृत्तिशुक्लध्यानं ध्यायन् स्वावष्टम्भेनैव निरुणद्धि । अन्यस्याऽवष्टम्भनीययोगान्तरस्य तदाऽसत्वादिति तन्निरोधाऽनन्तरं समुच्छिन्नक्रियमप्रतिपातिशुक्लध्यानं ध्यायन् हुस्वपञ्चाक्षरोगिरणमात्रं कालं शैलेशीकरणं प्रविष्टो . भवति, शीलस्य योगलेश्याकलङ्कविप्रमुक्तयथाख्यातचारित्रलक्षणस्य य ईशः स शीलेशस्तस्येयं शैलेशी । त्रिभागोनस्वदेहाऽवगाहनायामुदरादिरन्ध्रपूरणवशात् सङ्कोचितस्वप्रदेशस्य शीलेशस्यात्मनोऽत्यन्तस्थिराऽवस्थितिरित्यर्थः । तस्यां करणं पूर्वरचितशैलेशीसमय समानगुणश्रेणीकस्य वेदनीयनामगोत्राख्यस्याऽघातिकर्मत्रितयस्याऽसङ्ख्येयगुणना श्रेण्या आयु:शेषस्य तु यथास्वरूपस्थितया श्रेण्या निर्झरणं शैलेशीकरणं, तच्चासौ प्रविष्टोऽयोगोऽयोगी वा भवति, स चासौ केवली च । अयं च भवस्थः शैलेशीकरणचरमसमयानन्तरं तु छिन्नचतुर्विधकर्मबन्धनत्वाच्छिन्नफलबन्धनैरण्डबीजवद्गतिप्रवृत्तेः, सर्वथा विप्रहाय शरीरत्रयसम्बन्धं, दत्वा भवजलधेर्जलाञ्जलिमूर्ध्वमृजुश्रेण्या समयेन गच्छन्त्या लोकान्तान्न परतोऽपि, मत्स्यस्येव जलकल्पगत्युपष्टम्भकधर्मास्तिकायाभावात्तत्र चासौ सिद्धोऽयोगिकेवली सादिसपर्यवसानं कालं सकलसंसारद्वन्द्वविनिर्मुक्तः सकलरागादिकलङ्कविनिर्मुक्तत्वेन स्वाभाविकं परमानन्दस्वरूपं सुखमनुभवन्नास्ते, तस्य गुणस्थानमिति प्राग्वदिति ॥१४|| व्याख्यातानि सभावार्थानि चतुर्दशापि गुणस्थानानीति गाथार्थः ॥९॥ भा० जीवाइपयत्थेसुं जिणोवइट्ठेसु वा असद्दहणा । सद्दहणा चिय मिच्छा विवरीयपरूवणा जा य ॥४२॥ संसयकरणं जं पिय जो तेसु अणायरो पयत्थेसु । तं पंचविहं मिच्छं तद्दिट्टी मिच्छदिट्ठी य ॥८३॥
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy