________________
बन्धशतक प्रकरणम्
अधुना सयोगिकेवलिगुणस्थानम् । तत्र योगो वीर्यं शक्तिरुत्साहः पराक्रम इत्यनर्थान्तरं स च मनोवाक्कायलक्षणकरणत्रयभेदात्तिस्रः सञ्ज्ञा लभ्यन्ते । मनोयोगो वाग्योगः काययोगश्चेति । अमीषां भावार्थ: पूर्ववद्वाच्यः, स चायं त्रिविधोऽपि योगो भगवतः प्रस्तुतकेवलिनः सम्भवति । तत्र मनोयोगस्तावन्मनःपर्यायज्ञान्यादिभिरनुत्तरसुरादिभिर्वा जीवादितत्त्वं किञ्चिन्मनसा पृष्टस्य मनसैव देशनायां सम्भवति । वाग्योगस्तु सामान्येन धर्मदेशनादौ, काययोगस्तु चङ्क्रमणोन्मेषनिमेषादौ । तदनेन त्रिविधेन योगेन सह वर्त्तते इति सयोगः सयोगीति वा, सर्वधनादेः आकृतिगणत्वेन मत्वर्थीयेन्विधानादिति । केवलं | वक्ष्यमाणस्वरूपमस्यास्तीति केवली, सयोगश्चासौ केवली च, सयोगी वा चासौ केवली च, तस्य गुणस्थानमिति प्राग्वदिति
॥१३॥
अथायोगिकेवलीगुणस्थानं प्रस्तूयते । तत्र नास्ति पूर्वोक्तो योगोऽस्येत्ययोगोऽयोगीति वा पूर्ववदिति । कथमयोगित्वमुपगच्छत्यसाविति चेद् ? उच्यते, त्रिविधोऽपि हि पूर्वोक्तो योगः प्रत्येकं द्विधा भवति । सूक्ष्मो बादरश्च, केवली च | केवलज्ञानोत्पत्त्यनन्तरं जघन्यतोऽन्तर्मुहूर्त्तमुत्कृष्टतस्तु देशोनां पूर्वकोटिं विहृत्याऽन्तर्मुहूर्त्तावशेषाऽऽयुष्कः शैलेशीं प्रतिपित्सुः, प्रथमं तावद्वादरकाययोगेन बादरवाङ्मनोयोगौ निरुणद्धि । ततः सूक्ष्मकाययोगावष्टम्भेन बादरकाययोगं निरुणद्धि । सति तस्मिन् सूक्ष्मयोगस्य निरोद्धुमशक्यत्वात्, ततश्च सर्वबादरयोगनिरोधानन्तरं सूक्ष्मकाययोगावष्टम्भेन सूक्ष्मवाङ्मनोयोगौ निरुणद्धि,
गा.-९
५१