________________
गा.-९
बन्धशतकप्रकरणम्
गुणस्थानेषु क्वापि कियतामपि कषायाणामुपशान्तत्वसम्भवादुपशान्तकषायव्यपदेशः सम्भवतीत्यतस्तव्यवच्छेदार्थमुपशान्तकषायग्रहणे सत्यपि वीतरागग्रहणं कर्त्तव्यमुपशान्तकषायवीतराग इति चैतावतैवेष्टसिद्धौ छद्मस्थग्रहणं स्वरूपकथनार्थं, व्यवच्छेद्याभावाद्, न ह्यच्छद्मस्थ उपशान्तकषायवीतरागः सम्भवति, यस्य छद्मस्थग्रहणेन व्यवच्छेदः स्यादित्यलं प्रसङ्गेनेति ॥११॥
इदानीं क्षीणकषायवीतरागच्छद्मस्थगुणस्थानमुच्यते । तत्र क्षीणा अभावमापन्नाः कषाया यस्य स क्षीणकषायस्तत्रानन्तानुबन्धिकषायान् प्रथमविरतसम्यग्दृष्ट्याद्यप्रमत्तान्तगुणस्थानेषु क्षपयति, ततः शेषान् संज्वलनलोभवर्जाननिवृत्तिबादरसम्परायगुणस्थाने क्रमेण क्षपयति । संज्वलनलोभं सूक्ष्मसम्परायगुणस्थान इति तदेवमन्येष्वपि सरागेषु क्षीणकषायव्यपदेशः सम्भवति, क्वापि कियतामपि कषायाणां क्षीणत्वसम्भवादतस्तव्यवच्छेदार्थं वीतरागग्रहणं, क्षीणकषायवीतरागत्वं च केवलिनोऽप्यस्तीति तद्व्यवच्छेदार्थं छद्मस्थग्रहणं, छद्मस्थग्रहणे च कृते सरागव्यवच्छेदार्थं वीतरागग्रहणम् । वीतरागश्चासौ छद्मस्थश्चेति वीतरागछद्मस्थः । स चोपशान्तकषायोऽप्यस्तीति तद्व्यवच्छेदार्थं क्षीणकषायग्रहणं क्षीणकषायश्चासौ वीतरागछद्मस्थश्च क्षीणकषायवीतरागच्छद्मस्थस्तस्य गुणस्थानमिति प्राग्वदिति । अत्र चोपशान्तक्षीणमोहयोरयं विशेषः
'जलमिव पसंतकलुसं पसंतमोहो भवे उ उवसंतो । गयकलुसं जह तोयं गयमोहो खीणमोहोऽवि ॥१॥ इत्यादि ॥१२॥
१. जलमिव प्रशान्तकलुषं प्रशान्तमोहो भवेत्तूपशान्तः । गतकलुषं यथा तोयम्, गतमोहः क्षीणमोहोऽपि ॥१॥