________________
बन्धशतक
गा.-९
प्रकरणम् |
A
व्यतिरेकमात्रापेक्षया तथोच्यते, सति तस्मिन् केवलस्यानुत्पादात्तदपगमानन्तरं चोत्पादादिति, छद्मनि तिष्ठतीति छद्मस्थः, स च सरागोऽपि भवतीति अतस्तद्व्यवच्छेदार्थं वीतरागग्रहणम् । वीतो रागो मायालोभकषायोदयरूपो यस्य स वीतरागः, स चासौ छद्मस्थश्चेति वीतरागछद्मस्थः, स च क्षीणकषायोऽपि भवति, तस्यापि यथोक्तरागापगमात्ततस्तद्व्यवच्छेदार्थमुपशान्तकषायग्रहणम् । कषसिषजष इत्यादिदण्डकधातुहिँसार्थः कषन्ति कष्यन्ते च परस्परमस्मिन् प्राणिनः इति कषः संसारः, "पुंसि सञ्ज्ञायां घः प्रायेणेति", प्रायोग्रहणात् घप्रत्ययः, अन्यथा हि हलन्तत्वात् "हलश्चे" ति घञ् स्यादिति । कषमयन्ते गच्छन्त्येभिः प्राणिन इति कषायाः क्रोधादयः, उपशान्ता उपशमिता विद्यमाना एव सङ्क्रमणोद्वर्तनादिकरणायोग्यत्वेन व्यवस्थापिताः कषाया येन स उपशान्तकषायः, स चासौ वीतरागच्छद्मस्थश्चेत्युपशान्तकषायवीतरागछद्मस्थस्तस्य गुणस्थानमिति प्राग्वदिति । तत्राविरतसम्यग्दृष्टिप्रभृतेर्दर्शनसप्तकमुपशान्तं सम्भवति । उपशमश्रेण्यारम्भे ह्यनन्तानुबन्धिकषायानविरतो देशविरतः प्रमत्तोऽप्रमत्तो वा सन्नुपशमय्य, मिथ्यादर्शनमोहत्रितयमुपशमयति, तदुपशमानन्तरं च प्रमत्ताऽप्रमत्तपरिवृत्तिशतानि कृत्वा, ततोऽपूर्वकरणगुणस्थानमनुभूय, तदनन्तरमनिवृत्तिबादरसम्परायगुणस्थाने चारित्रमोहस्य प्रथमं नपुंसकवेदमुपशमयति । ततः स्त्रीवेदं, ततो हास्यरत्यरतिशोकभयजुगुप्सारूपं युगपत् षट्कम्, ततः पुरुषवेदम्, ततो युगपद् प्रत्याख्यानावरणप्रत्याख्यानावरणौ क्रोधौ, ततः संज्वलनक्रोधं, ततो युगपद् द्वितीयतृतीयौ मानौ, ततः संज्वलनमानं, ततो युगपद् द्वितीयतृतीये माये, ततः संज्वलनमायां, ततो युगपद् द्वितीयतृतीयौ लोभौ, ततः सूक्ष्मसम्परायगुणस्थाने संज्वलनलोभमुपशमयतीति । तदेवमन्येष्वपि
AALA