________________
गा.-९
बन्धशतकप्रकरणम्
AA
उपशमकस्तु ता एवोपशमयति । सर्वकरणायोग्याः करोति, तदुक्तम्
उवसंतं जं कम्म, न तओ कड्डइ न देइ उदए वि । न य गमयइ परपगई, न चेव उक्कड्डए तं तु ॥१॥ अस्या अपि विनेयानुग्रहार्थं व्याख्या-सर्वोपशमेन यदुपशान्तं मोहनीयं कर्म, अन्यस्य सर्वोपशमायोगात् । “सव्वोवसमो मोहस्सेवे" ति वचनादिति । न तदपकर्षति-न तदपवर्त्तनाकरणेन स्थितिरसाभ्यां हीनं करोतीत्यर्थः । अपिशब्दस्य भिन्नक्रमत्वान्नाप्युदये तद्ददाति नापि तद्वेदयतीत्यर्थः, उपलक्षणत्वात्तदविनाभाविन्यामुदीरणायामपि न ददातीत्यपि मन्तव्यमिति । न च बध्यमानसजातीयरूपां परप्रकृति सङ्कमकरणेन गमयति सङ्क्रमयति । न च तत्कर्मोपशान्तं सदुत्कर्षयति उद्वर्त्तनाकरणेन स्थितिरसाभ्यां वृद्धि नयति । निधत्तिनिकाचनयोस्तु प्रागपूर्वकरणकाल एव निवृत्तत्वान्नेहोपशान्तत्वेन तन्निषेधः क्रियत इति । दर्शनत्रिकं मुक्त्वा उपशान्तस्य मोहनीयकर्मणः स्वरूपमन्यत्रापि भावनीयम् । दर्शनत्रिकस्य तु सङ्कमकरणमेकं प्रवर्त्तत एवेति, तस्योपशमकक्षपकसूक्ष्मसम्परायस्य गुणस्थानं सूक्ष्मसम्परायगुणस्थानम् ॥१०॥
इदानीमुपशान्तकषायवीतरागच्छद्मस्थगुणस्थानमुच्यते । तत्र छाद्यते केवलं ज्ञानं दर्शनं चात्मनोऽनेनेतिच्छद्म, ज्ञानावरणदर्शनावरणमोहनीयान्तरायकर्मोदयः । इह यद्यपि केवलज्ञानदर्शनयोराच्छादकत्वेनान्तरायं कर्म न प्रसिद्धम्, तथाऽप्यन्वय
१. सर्वोपशमो मोहस्यैवेति ।