SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ बन्धशतक मध्यप्रक्षिप्ततैलवद्वित्रुटितस्यैकोत्तरवृद्धिक्रमं त्याजितस्य परिहृतस्पर्द्धकक्रमस्य विशुद्धिप्रकर्षतः खण्डित्वा अल्पीकृतस्य रसस्य प्रकरणम् सद्भावतोऽनन्तभागात्मका अपि कल्पनया दर्शितपञ्चादिस्वरूपा अवस्थाविशेषाः किट्टयोऽभिधीयन्ते । एताश्च क्रोधादिषु चतुर्ष्वपि प्रत्येकमनन्ता भवन्त्योऽपि कर्मप्रकृतिप्राभृतादिनिगदितविवक्षया तिस्रस्तिस्रो विवक्ष्यन्त इति । सर्वा अपि द्वादश, एताश्च प्रथमं बादराः स्थूररसाः करोति । ततः प्रतिसमयं विशुद्धमानस्ता एव सूक्ष्माः सूक्ष्मतराः प्रायो निवृत्तरसाः करोति । एवं च कृते क्रोधमानमायासम्बन्धिनीरिहैवासौ क्षपयति । लोभसम्बन्धिनीस्तु किट्टीर्बादरा अयमेव, सूक्ष्मास्तु सूक्ष्मसम्परायः क्षपयति । तदेवं यः क्षपकोऽनिवृत्तिबादरः स उक्तक्रमेण द्वितीयकषायाद्या मायावसाना विंशतिर्मोहप्रकृतीः क्षपयति । उपशमकः पुनरेता एव वक्ष्यमाणक्रमेणोपशमयति । उद्वर्त्तनादिकरणायोग्याः करोतीत्यर्थः । अपरं चासौ क्षपकाद्विशुद्धया अनन्तगुणहीनो भवत्यतः क्रोधमानमायोपशमनकाले तदनुभागस्य किट्टीर्न करोति । लोभस्य तु पूर्वोक्तवत्तिस्रः किट्टीः करोति । तदुपशमकाले | तथाविधविशुद्धेः सद्भावादिति लेशतो व्याख्यातमिदं गुणस्थानं, विस्तरार्थिना तु कर्मप्रकृतिरनुसरणीयेति ||९|| इतः सूक्ष्मसम्परायगुणस्थानकमुच्यते । सूक्ष्मः सम्परायः किट्टीकृतलोभकषायोदयरूपो यस्यासौ सूक्ष्मसम्परायः सोऽपि द्विविधः क्षपक उपशमको वा, तत्र क्षपकोऽनिवृत्तिबादरेण याः कृताः श्लक्ष्णकिट्ट्यस्ता निर्मूलत एव क्षपयति । तदुक्तम्'बायररागेण कया सुहुमो वेएइ सुहुमकिट्टीओ । तम्हा सुहुमसरागो सुहुमो सुद्धप्पओगप्पा ॥१॥ १. बादररागेण कृता सूक्ष्मो वेदयति सूक्ष्मकिट्टीः । तस्मात् सूक्ष्मसरागः सूक्ष्मः शुद्धप्रयोगात्मा ॥१॥ गा.-९ ४७
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy