SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ गा.-९ बन्धशतकप्रकरणम् A एतेषां च समुदायः समानजातीयत्वादेका वर्गणेत्यभिधीयते । अन्येषां त्वेकोत्तरशतरसांशयुक्तानामणूनां समुदायो द्वितीया वर्गणा, अपरेषां तु व्युत्तरशतरसांशयुक्तानामणूनां समुदायस्तृतीया वर्गणा । अपरेषां तु व्युत्तरशतरसभागयुक्तानामणूनां समुदायश्चतुर्थी वर्गणा एवमनया दिशा एकैकरसभागवृद्धानामणूनां समुदायरूपा वर्गणाः सिद्धानामनन्तभागेऽभव्येभ्योऽनन्तगुणा वाच्याः । एतावतीनां च वर्गणानां समुदाय: स्पर्द्धकमित्युच्यते । स्पर्धन्त इवात्रोत्तरोत्तररसवृद्ध्या परमाणुवर्गणा इतिकृत्वा, एताश्चानन्तरोक्तानन्तकप्रमाणा अप्यसत्कल्पनया षट् स्थाप्यन्ते, इदमेकं स्पर्द्धकम् । इत ऊर्ध्वमेकोत्तरया निरन्तरया वृद्ध्या वृद्धो रसो न लभ्यते, किं तर्हि सर्वजीवानन्तगुणैरैव रसभागैर्वृद्धो लभ्यत इति । तेनैव क्रमेण द्वितीयं स्पर्द्धकमारभ्यते । ततस्तथैव तृतीयमित्यादि, यावदनन्तानि रसस्पर्द्धकानि उत्तिष्ठन्ति । तदेवमेतानि रसस्पर्द्धकानि, प्रस्तुतगुणस्थाने समायातः, क्रोधादिक्षपणकाले विशुद्धिवशतो हत्वा अनन्तगुणहीनरसान्यपूर्वाणि करोति । एतान्यपि विशुद्धिप्रकर्षतो हत्वाऽत्यन्ताल्परसानि कृत्वा एकोत्तरवृद्धिक्रमं त्याजयति त्रुटितानन्तरसभागान्तरालमेतद्रसं करोतीत्यर्थः । इदमुक्तं भवति-अनन्तरोक्तापूर्वस्पर्द्धकसम्बन्धिषु जघन्यरसेषु परमाणुषु यद्यसत्कल्पनया पञ्चाशद्रसविभागा लभ्यन्ते, तदा किट्टीकरणकाले तेष्वेवासत्कल्पनया पञ्चैव रसभागा लभ्यन्ते । तदनन्तरमेकेन व्यादिभिर्वा रसभागैरधिका अणवो न लभ्यन्ते, किन्त्वनन्तैरेव रसभागैरधिकाः प्राप्यन्ते । ते च भागाः किलाऽसत्कल्पनया पञ्चविंशतिः । तदनन्तरं पुनरप्यनन्तैरेवानुभागभागैरधिका अणवो लभ्यन्ते, नैकोत्तरवृद्ध्या, तेऽपि भागाः किल सार्द्धशतद्वयं । अत्र स्थापना (२५० इदं च निदर्शनमात्रं, सद्भावतः पुनरित्थमनन्तरसभागान्तराला अनन्ताः किट्टयो वाच्याः । तदेवमुदक
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy