________________
गा.-९
बन्धशतकप्रकरणम्
AAAAAAAAAA AAA
क्षपको मोहस्य विंशतिप्रकृती: स्त्यानद्धित्रिकं त्रयोदश नामप्रकृतीश्च क्षपयति । उक्तञ्च
नासेइ तओ खवगो लोभं मोत्तूण मोहवीसमवि । तह थीणगिद्धितिगमवि तेरस नामंपि एत्थेव ॥१॥ कथमिति चेद् ? उच्यते, प्रथमं तावत्प्रत्याख्यानाप्रत्याख्यानावरणाख्यानष्टौ कषायान् क्षपयितुमारभते । तेषु चार्द्धक्षपितेष्वेवातिविशुद्धिवशादन्तराल एव स्त्यानद्धित्रिकं नाम्नश्चेमास्त्रयोदश प्रकृतीरूच्छादयति, तद्यथा-नरकद्विकं तिर्यद्विकमेकेन्द्रियत्रीन्द्रियचतुरिन्द्रियजातयश्चतस्र आतपमुद्योतं स्थावरं साधारणं सूक्ष्ममिति । एतासु च षोडशप्रकृतिषु क्षपितासु पुनः कषायाष्टकस्य क्षपितशेष क्षपयति । ततो नपुंसकवेदं, ततोऽपि स्त्रीवेदं, तदनन्तरमपि च हास्यादिषट्कम्, ततोऽपि पुरुषवेदं क्षपयति । तत ऊर्ध्वं सञ्चलनक्रोधं, ततो मानं, ततो मायां निर्दलयति, ततो लोभं क्षपयितुमारभते । एतांश्च चतुरः कषायान्वेदयंस्तदनुभागस्य विशुद्धिप्रकर्षवशादनन्ताः किट्टीः करोति । ननु किट्टी ति कः शब्दार्थः ? उच्यते, इह तावदनन्तैः परमाणुभिर्निष्पन्नान् स्कन्धान् जीवः कर्मतया गृह्णाति, तत्र चैकैकस्कन्धे यः सर्वजघन्यरसः परमाणुः सोऽपि केवलिप्रज्ञया छिद्यमानः किल सर्वजीवेभ्योऽनन्तगुणान् भागान् प्रयच्छति, अपरस्तु तानप्येकाधिकान् अन्यस्तु तानपि द्वय धिकान्, अपरस्तु तानपि त्र्यधिकान्, इत्याद्येकोत्तरवृद्ध्या तावन्नेयं, यावदन्त्य उत्कृष्टरसः परमाणुमौलराशेरनन्तगुणानपि रसभागान् प्रयच्छति । अत्र च जघन्यरसा ये केचन परमाणवस्तेषु सर्वजीवानन्तगुणरसभागयुक्तेष्वप्यसत्कल्पनया शतं रसांशानां परिकल्प्यते,
१. नाशयति ततः क्षपको लोभं मुक्त्वा मोहनीयस्य विंशतिरपि । तथा स्त्यानगृद्धत्रिकमपि त्रयोदश नाम्नोऽप्यत्रैव ॥१॥
AAA