SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ गा.-९ बन्धशतकप्रकरणम् ततोऽपि तदुत्कृष्टमनन्तगुणविशुद्धमित्येवं तावन्नेयं यावद् द्विचरसमयोत्कृष्टाच्चरमसमयजघन्य- मनन्तगुणविशुद्धम्, ततोऽपि तदुत्कृष्टमनन्तगुणविशुद्धमिति । एकसमयगतानि तु परस्परं षट्स्थानपतितानि । ननु यथाऽस्यापूर्वकरण इति सञ्ज्ञा तथा निवृत्तिरित्यपि सङ्घान्तरं दृश्यते "'नियट्टिअनियट्टिबायरसुहमु" इत्यादिवचनात् कथम् ? अत्रोच्यते, युगपदेतद्गुणस्थानं प्रविष्टानां परस्परमध्यवसायस्थानस्य भेदलक्षणा निवृत्तिरप्यस्ति न पुनर्वक्ष्यमाणाऽनिवृत्तिबादवदेकसमयप्रविष्टानामध्यवसायस्यैकत्वमेव ततश्च निवृत्तियोगान्निवृत्तिरप्युच्यतेऽसावित्यदोषः ॥८॥ इदानीमनिवृत्तिबादरसम्परायगुणस्थानमुच्यते । युगपदेतद्गुणस्थानं प्रतिपन्नानां बहूनां जीवानां परस्परसम्बन्धिनोऽध्यवसायस्थानस्य व्यावृत्तिरिह निवृत्तिरभिप्रेता, नास्ति तथाविधा निवृत्तिरस्येत्यनिवृत्तिः । समकालमेवारुढस्यापरस्य यदध्यवसायस्थानं विवक्षितोऽपि कश्चित्तद्वत्येवेत्यर्थः । सम्परैति-पर्यटति संसारमनेनेति सम्परायः । कषायोदय इह विवक्षितः, बादरः-स्थूरः सम्परायो यस्यासौ बादरसम्परायोऽनिवृत्तिश्चासौ बादरसम्परायश्च तस्य गुणस्थानम् अनिवृत्तिबादरसम्परायगुणस्थानम्। इदमप्यन्तर्मुहूर्तप्रमाणमेव भवति । तत्र चान्तर्मुहूर्ते यावन्तः समयास्तत्प्रविष्टानां तावन्त्येवाध्यवसायस्थानानि भवन्त्येकसमयप्रविष्टानामेकस्यैवाऽध्यवसायस्याऽनुवर्त्तनादिति । स्थापना । स चानिवृत्तिबादरो द्विधा क्षपक उपशमकश्च । तत्र १. निवृत्यनिवृत्तिबादरसूक्ष्मः ॥
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy