SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ गा.-९ बन्धशतकप्रकरणम् AA पुनस्तानि भवन्तीति विनेयजनानुग्रहार्थं विशेषतोऽपि प्ररूप्यन्ते । इह तावदिदं गुणस्थानकमन्तर्मुहूर्त्तकालप्रमाणं भवति । तत्र च | प्रथमसमयेऽपि ये प्रपन्नाः प्रपद्यन्ते प्रपत्स्यन्ते च तदपेक्षया जघन्यादीन्युत्कृष्टान्तान्यसङ्ख्येयानि लोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि लभ्यन्ते, प्रतिप्रतॄणां बहुत्वात्, अध्यवसायानां (च) विचित्रत्वादिति भावनीयम् । ननु यदि कालत्रयापेक्षा क्रियते तदैतद्गुणस्थानकं प्रतिपन्नानामनन्तान्यध्यवसायस्थानानि कस्मान्न भवन्ति ? अनन्तजीवरस्य प्रतिपन्नत्वादनन्तैश्च प्रतिपत्स्यमानत्वादिति, सत्यं, स्यादेवं यदि तत्प्रतिपत्तॄणां सर्वेषां पृथक्पृथग्भिन्नान्येवाऽध्यवसायस्थानानि स्युस्तच्च नास्ति, बहूनामेकाध्यवसायस्थानवर्तित्वादपीति, यथा किल क्वचिच्छतं चारित्रिणां दशस्वध्यवसायस्थानेषु वर्त्तते, दशानां एकाध्यवसायस्थानवर्तित्वाद्, एवमिहाऽप्यनन्तानामपि तत्प्रतिपत्तॄणामसङ्ख्येयाध्यवसायस्थानवतित्वं भावनीयमिति । द्वितीयसमये तदन्यान्यधिकतराण्यध्यवसायस्थानानि लभ्यन्ते । तृतीयसमये तदन्यान्यधिकतराणि, चतुर्थसमये तदन्यान्यधिकतराणीत्येवं तावद् ज्ञेयं यावच्चरमसमयः । एतानि स्थाप्यमानानि विषमचतुरस्रक्षेत्रमभिव्याप्नुवन्ति । तद्यथा ननु द्वितीयादिसमयेष्वध्य३५ ००००००००००००० ४० वसायस्थानानां वृद्धौ किं कारणम् ? उच्यते, प्रतिसमयं विशुद्ध्यन्तः खल्विह प्रतिपत्तारः स्वभावत एव | बहवो विभिन्नेष्वध्यवसायस्थानेषु वर्तन्त इत्यलं विस्तरेण । प्रकृतं प्रस्तुमः । अत्र च प्रथम१५ ०००००००००२० | समयजघन्याध्यवसायस्थानात् प्रथमसमयोत्कृष्टमध्यवसायस्थानमनन्तगुणविशुद्धं, प्रथमसमयोत्कृष्टाद् द्वितीय समयजघन्यमनन्तगुणविशुद्धं, द्वितीयसमयजघन्यात्तदुत्कृष्टमनन्तगुणविशुद्धं, तस्माच्च तृतीयसमयजघन्यमनन्तगुणविशुद्धं, २५०००००००००००३० । ४३ A.AA
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy