SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् करणं यस्य स भवत्यपूर्वकरणः । स हि स्थितिघातरसघातगुणश्रेणिगुणसङ्क्रमस्थितिबन्धलक्षणान् पञ्च पदार्थान्नपूर्वानेव करोति, तथाहि - बृहत्प्रमाणाया ज्ञानावरणादिकर्मस्थितेरपर्वतनाकरणेन खण्डनमल्पीकरणं स्थितिघात उच्यते । रसस्यापि वक्ष्यमाणस्वरूपस्य प्रचुरस्य सतोऽपर्वतनाकरणेनैव खण्डनमल्पीकरणं रसघात उच्यते । एतौ च द्वावपि पूर्वगुणस्थानेषु विशुद्धेरल्पत्वादल्पावेव कृतवान्, अत्र पुनर्विशुद्धेः प्रकृष्टत्वाद् बृहत्प्रमाणतयाऽपूर्वाविमौ करोतीति । तथा उपरितनस्थितेर्विशुद्धिवशादपवर्तनाकरणेनाऽवतारितस्य दलिकस्यान्तर्मुहूर्त्तप्रमाणमुदयक्षणादुपरि क्षिप्रतरक्षपणाय प्रतिक्षणमसङ्ख्येयगुणवृद्ध्या विरचनं गुणश्रेणिरित्युच्यते । स्थापना । एतां च पूर्वगुणस्थानेष्वविशुद्धत्वात्कालतो दीर्घा दलिकविरचनामाश्रित्याप्रथीयसीं दलिकस्याल्पस्यापर्तनाद्विरचितवान् इह तु तामेव विशुद्धत्वादपूर्वं कालतो ह्रस्वतरां दलिकविरचनामाश्रित्य पुनः पृथुतरां बहुतरदलिकस्यापर्तनाद्विरचयतीति । तथाऽबध्यमान (ना) शुभप्रकृतिदलिकस्य प्रतिक्षणमसङ्ख्येयगुणवृद्ध्या(बध्यमानासु) | विशुद्धिवशान्नयनं गुणसङ्क्रमस्तमप्यसौ बहुतरदलिकस्य सङ्क्रमणादिहापूर्वं करोति । तथा स्थितिं च कर्मणामशुद्धत्वात् प्राग् दीर्घं बद्धवान्, इह तु तामपूर्वं विशुद्धत्वादेव ह्रस्वां बध्नातीत्येवं पञ्चानां पदार्थानामपूर्वकरणमिह भावनीयं, उपलक्षणं चैतदुदयोद्वर्तनादीनां तेषामपि ह्यत्र सर्वेषामपूर्वत्वादिति । अयं चापूर्वकरणो द्विधा भवति । क्षपक उपशमको वा, क्षपणोपशमनार्हत्वाद्राज्यार्हकुमारराजवत्, न पुनरसौ क्षपयत्युपशमयति वा, तस्य गुणस्थानमपूर्वकरणगुणस्थानम्, एतच्च गुणस्थानं प्रपन्नान् कालत्रयवर्त्तिनो नानाजीवानपेक्ष्य सामान्यतोऽसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति । कथं गा.-९ ४२
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy