SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् 'सम्महंसणसहिओ गिण्हंतो विरइमप्पसत्तीए । एगव्वयाइचरिमो अणुमइमेत्तो त्ति देसजई ॥ १ ॥ परिमियमुवसेवंतो अपरिमियमणंतयं परिहरंतो । पावइ परग्मि लोए अपरिमियमणंतयं सोक्खं ॥१॥ ॥५॥ संयच्छति स्म - सम्यगुपरमति स्म “ गत्यर्थाकर्मकः " इत्यादिना कर्त्तरि क्तप्रत्यये संयतः प्रमाद्यति स्म -संयमयोगेषु सीदति स्मेति पूर्ववत्कर्त्तरि क्तप्रत्यये प्रमत्तः, अथवा प्रमदनं प्रमत्तः प्रमादः, स च मदिराविषयकषायनिद्राविकथानां पञ्चानामन्यतमः, सर्वे वा, प्रमत्तमस्यास्तीत्यर्शादित्वान्मत्त्वर्थीयाऽप्रत्ययोपादानात्प्रमत्तः प्रमादवानित्यर्थः, स चासौ संयतश्चेति प्रमत्तसंयतः । तस्य सम्बधिनां गुणानां स्थानं तदुपचयापचयकृतः स्वरूपविशेषः, तथाहि - देशविरतिगुणापेक्षया एतद्गुणा& नामुपचयोऽप्रमत्तसंयतगुणापेक्षया त्वपचयः, इत्येवमन्येष्वपि गुणस्थानकेषु पूर्वोत्तरापेक्षया उपचयापचययोजना कर्तव्येति ॥६॥ तथा न प्रमत्तोऽप्रमत्तो नास्ति वा प्रमत्तमस्येत्यप्रमत्तो मदिरादिप्रमादरहितः, अप्रमत्तश्चासौ संयतश्चेत्यप्रमत्तसंयतस्तस्य गुणस्थानमप्रमत्तसंयतगुणस्थानम् ||७|| अथेदानीमपूर्वकरणगुणस्थानमुच्यते । तत्रापूर्वमभिनवं प्रथममित्यनर्थान्तरं करणं क्रिया निर्वर्त्तनमिति वाऽनर्थान्तरं, अपूर्वं १. सम्यग्दर्शनसहित गृह्णन् विरतिमात्मशक्त्या । एकव्रतादिचरिमोऽनुमतिमात्र इति देशयतिः || १ || परिमितमुपसेवन् अपरिमितमनन्तकं परिहरन् । प्राप्नोति परे लोकेऽपरिमितमनन्तकं सौख्यम् ||२|| गा.-९ ४१
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy