________________
गा.-९
बन्धशतकप्रकरणम्
मावृण्वन्तीति अप्रत्याख्यानावरणा उच्यन्ते, नोऽल्पार्थत्वात् । इदमुक्तं भवति-यः पूर्ववर्णितौपशमिकसम्यग्दृष्टिः, शुद्धदर्शनमोहपुञ्जोदयवर्ती वा क्षायोपशमिकसम्यग्दृष्टिः, क्षीणदर्शनसप्तको वा क्षायिकसम्यग्दृष्टिः, परममुनिप्रणीतां सावद्ययोगविरति सिद्धिसौधाध्यारोहणनिःश्रेणिकल्पां जानन्नप्यप्रत्याख्यानावरणकषायोदयविघ्नितत्वान्नाभ्युपगच्छति, न च तत्पालनाय यतत इत्यसावविरतसम्यग्दृष्टिरुच्यते, तस्य गुणस्थानमविरतसम्यग्दृष्टिगुणस्थानम् । उक्तञ्च
'बंध अविरइहेऊं जाणंतो रागदोसदुक्खं च । विरसुहं इच्छंतो विरई काउं च असमत्थो ॥१॥
एस असंजयसंमो निंदतो पावकम्मकरणं च । अहिगयजीवाजीवो अचलियदिट्ठी चलियमोहो ॥२॥ ||४|| तथा सर्वसावद्ययोगस्य देशे एकव्रतविषये स्थूलसावधयोगादौ सर्वव्रतविषयानुमतिवय॑सर्वसावधयोगान्ते विरतं विरतिर्यस्यासौ देशविरतः । सर्वसावद्ययोगविरतिस्त्वस्य नास्ति, प्रत्याख्यानावरणकषायोदयात्, सर्वविरतिरूपं हि प्रत्याख्यानमावृण्वन्तीति प्रत्याख्यानावरणा उच्यन्ते इति । देशविरतस्य गुणस्थानं देशविरतगुणस्थानम् । उक्तञ्च
१. बन्धमविरतिहेतुं जानन् रागद्वेषदुःखं च । विरतिसुखमिच्छन् विरतिं कर्तुं चासमर्थः ॥१॥ २. एष असंयतसम्यक्त्वी निन्दन पापकर्मकरणं च । अधिगतजीवाजीवोऽचलितदृष्टिश्चलितमोहः ॥२॥