________________
बन्धशतकप्रकरणम्
| जघन्येन समयशेषायामुत्कृष्टतः षडावलिकाशेषायां कस्यचिन्महाविभिषिकोत्थानकल्पोऽनन्तानुबन्ध्युदयो भवति । तदुदये चासौ सास्वादनसम्यग्दृष्टिगुणस्थाने वर्त्तते, उपशमश्रेणिप्रतिपतितो वा कश्चित्सासादनत्वं यातीति । तदुत्तरकालं चावश्यं मिथ्यादृष्टिर्भवतीत्यलं विस्तरेणेति ॥ २॥
..
तथा सम्यक्त्वमिथ्यात्वदृष्टिर्यस्य स सम्यग्मिथ्यादृष्टिस्तस्य गुणस्थानं सम्यङ्मिथ्यादृष्टिगुणस्थानम् । इदमत्र हृदयम्| वर्णितविधिना लब्धेनौपशमिकसम्यक्त्वेनौषधविशेषकल्पेन मदनकोद्रववदशुद्धं दर्शनमोहनीयं कर्म जीवः शोधयित्वा त्रिधा करोति । तद्यथा शुद्धमर्द्धविशुद्धमशुद्धं चेति स्थापना १०००० । त्रयाणां चैतेषां पुञ्जानां मध्ये यदाऽर्द्धविशुद्धः पुञ्ज उदेति, तदा तदुदयवशादर्द्धविशुद्धमर्हद्वष्टितत्त्वश्रद्धानं भवति जीवस्य तेन तदाऽसौ सम्यङ्मथ्यात्वगुणस्थानमन्तर्मुहूर्त्तं स्पृशति, तत ऊर्ध्वमवश्यं सम्यक्त्वं मिथ्यात्वं वा गच्छतीति ॥३॥
तथा विरमति स्म सावद्ययोगेभ्यो निवर्त्तते स्मेति "गत्यर्थाकर्मकः " इत्यादिना कर्त्तरि विहिते क्तप्रत्यये विरतो, न तथाऽविरतः, अथवा "नपुंसके भावे क्त" इति क्तप्रत्यये विरमणं विरतम्, सावद्ययोगप्रत्याख्यानमेव, नास्य विरतमस्तीत्यविरतः स चासौ सम्यग्दृष्टिश्चेत्यविरतसम्यग्दृष्टिः । यद्यपि सम्यग्दृष्टित्वेन सावद्ययोगप्रत्याख्यानं जानाति [अज्ञानिनः सम्यक्त्वायोगात् ] तथापि तदसौ नाभ्युपगच्छति, न च पालयति, अप्रत्याख्यानावरणकषायोदयात्, ते ह्यल्पमपि प्रत्याख्यान
गा.-९
३९