________________
बन्धशतक प्रकरणम्
किमर्थं चास्य प्रणयनम् ? इत्यादिप्रश्नपरम्पराया नास्त्यवकाशलेशोऽपि । परं पूज्यप्रवराश्चेमे कदेमं मानवलोकम् विशेषतया जैनसमाजम् अनन्यसाधारणेन स्वकीयजीवनेनोपाकृषत ? इत्ययं प्रश्नस्त्ववश्यंतयोपतिष्ठते, तथाऽपि साधनाभावात् नालंभूष्णुरहमेनं समाधातुम् । सामान्येन पूर्वधरकालस्य वीरसमानां सहस्रत्वात् ते तदन्तरालभाविन इति तु निर्विवादं विशेषेण दृष्टिवादपाठ्यभ्यर्थनया श्रुतकेवलिकालः स्यात्, स च वीरसमानां शतद्वय्येवेति निर्णेयं स्यात् । अभिजनादिज्ञाने तु न साधनमिति निरुपायः । 'चोद्दसविहाओ सव्वाओ पुव्वगयाओ कहेसि' इति वचनमपि तेषां प्रभूणां सकल श्रुतधरत्वद्योतकम् ।
यद्यप्यस्मिन् प्रकरणरले गाथानां सप्ताधिकशतमानस्य दृश्यमानत्वेन भवत्येतत् शङ्कास्थानं यदुत "गाथाशतपरिमाणनिष्पन्नं यथार्थनामकं शतकाख्यं प्रकरणम्" इत्येतत् कथनं कथङ्कारं सत्यतामञ्चति ? परं तन्न युज्यते, यतस्तस्य प्रथमा गाथाऽभिधेयाऽभिधायिका, 'द्वितीया तृतीया च द्वारप्रतिपादिका, गुणस्थानेषु योगानां मतान्तरद्योतिका त्रयोदशी गाथा त्वन्यकर्तृका, यद्वा स्वकर्तृकापि मतान्तरेण गुणस्थानेषु योगानां प्रतिपादकत्वेन पृथक्तया न गणनीया, अन्तिमाः तिस्त्रश्च क्रमशः ग्रन्थोपसंहार - स्वौद्धत्यपरित्याग-ग्रन्थप्रयोजनादिप्रतिपादिकाः सन्ति, अतोऽस्य सान्वर्थाख्यायां नास्त्येव यत्किञ्चिदपि शङ्कास्थानम् । व्यवहारतो वा पञ्चाशके यथा न्यूनाधिकगाथासंभवेऽपि पञ्चाशकावा अष्टके षोडशकेऽपि तत्तदाह्वा तथाऽत्र ।
'किं परिकम्म- सुत्त - पढमाणुओग-पुव्वगय- चूलिगामइयातो सव्वाओ दिट्टिवायाओ कहेसि ? न इत्युच्यते, पुव्वगयाओ । किं उप्पायपुव्व - अग्गेणिय जाव लोगबिंदुसाराओ त्ति एयाओ चोद्दसविहाओ सव्वाओ पुव्वगयाओ कहेसि ?, न इत्युच्यते, अग्गेणियातो बीयाओ पुव्वातो । किं अट्ठवत्थुपरिमाणाओ अग्गेणियपुव्वातो सव्वातो कहेसि ? न इत्युच्यते, पुव्वंते अवरंते धुवे
प्रस्तावना
६