________________
प्रस्तावना
बन्धशतकप्रकरणम्
ALA
पूज्यपाद-परमगुरु-श्रीमद्विजयकमलसूरीश्वरेभ्यो नमः
श्रीशतकप्रकरणप्रस्तावना इहानन्तभवभ्रमणनिबन्धनमहामोहसन्ततिसलिलगहने विविधाधिव्याधिनकचक्रातिरौद्रे जातिजरामरणप्रबन्धमहोर्मिभीमे गम्भीरापारसंसारवारान्निधौ निमज्जता पुरुषेण प्रवणं यानपात्रमिव संप्राप्य श्रीसर्वज्ञधर्मान्वितं मनुष्यजन्म परोपकारे यतितव्यम् । तस्यैव सकलधर्मसारत्वेन यथोक्तमनुष्यजन्मफलत्वात्, उक्तं च
सक्षेपात् कथ्यते धर्मो, जनाः किं विस्तरेण न: ? । परोपकारः पुण्याय, पापाय परपीडनम् ॥१॥
स चोपकारः परमार्थतो जिनवचनोपदेश एव, तस्यैवानन्तभवोपचितक्लेशविच्छेदहेतुत्वादिति जिनवचनोपदेशेनैवोपकर्त्तव्याः प्राणिनः । स च जिनवचनोपदेशो यद्यप्युपदेष्टव्यभेदादनेकधा, तथापि कर्मणः सकलदुःखमूलत्वात्तत्स्वरूपमेव यत्नतो ज्ञापनीयम् । ज्ञापिते हि सकलदुःखमूले कर्मण्यवगतत्स्वरूपाः प्राणिनः तदपगमार्थं यत्नमाधाय परमनिवृत्तिमधिगच्छन्तीति निश्चित्य, बहुविस्ताराऽतिगम्भीरकर्मप्रकृतिप्राभृतादिग्रन्थोक्तकर्मस्वरूपावगाहनाऽसमर्थानां तथाविधायुर्बलमेधादिसामग्रीविकलानां साम्प्रतसाधूनामनुग्रहकाम्यया समधिगतश्रुतजलधितत्त्वैरनेकवादसमरविजयिभिः श्रीशिवशर्मसूरिभिः सङ्क्षिप्ततरं सुखावबोधं च गाथाशतपरिमाणनिष्पन्नं यथार्थनामकं शतकाख्यं प्रकरणमभ्यधायि इति तु व्याख्याकर्तृभिर्मलधारगच्छीयश्रीमद्धेमचन्द्रसूरिभिरेव प्रस्तावितम्, अत एव सान्वर्थाभिधेयस्य सङ्क्षिप्ततरस्य सुखावबोधस्य दृष्टिवादनामक-द्वादशाङ्गसूत्रात् समुद्धरितत्वेन सारभूतस्य चास्य प्रकरणरत्नस्य के पारमेश्वरप्रवचनपरमार्थवेदिनः प्रणेतार: ?
AAA